________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
४१
अथ गृहीताविनाभावानामपि कार्यत्वदर्शनात्तन्त्वादिप्रतिभासानुत्पत्तेरेवमुच्यते, तदसत् । ये हि कार्यत्वादेर्बुद्धिमत्कारणपूर्वकत्वेन गृहीताविनाभावाः ते तस्मादीश्वरादिपूर्वकत्वं तेषामवगच्छन्त्येव । तस्माद् व्युत्पन्नानामत्येव पृथिव्यादि (दो) संस्थानवत्त्वकार्यत्वादेतोर्थर्मि धर्मतावगमः । अव्युत्पन्नानां तु प्रसिद्धानुमाने धूमादावपि नास्ति । अपि च भवतु प्रासादादिसंस्थानेभ्यः पृथिव्यादि संस्थानस्य बैलक्षण्यं तथापि कार्यत्वं शाक्यादिभिः पृथिव्यादीनामिष्यते । कार्यं च कत्तकरणादिपूर्वकं दृष्टम्, अतः कार्यत्वादिसंस्थानबुद्धिमत्कारणपूर्वकत्वानुमानम् । अथ कर्तृपूर्वकस्य कार्यत्वस्य संस्थानवत्त्वस्य व सलण्यान्न ततः साध्यावगमः । अत एवाधिष्ठातृभावानुवृत्तिमद् यत् संस्थानं तद्दर्शनात् कर्वदर्शिनोऽपि तत्प्रतिपत्तिर्युक्तेत्यस्य दूषणम्ब कार्यत्वेऽपि समानत्वात् कथं गमकता ? यद्येवमनुमानोच्छेदप्रसङ्गः । धूमादिकमपि यथाऽग्न्यादिसामग्रीभावानुवृत्तिमत् तथाविधमेव यदि पर्वतोपरि भवेत् स्यात्ततो वहन्याद्यवगमः । अधाधूमव्यावृत्तं तथाविधमेव धूमादि तर्हि कार्यत्वाद्यपि तथाविधमेव पृथिव्यादिगतं किं नेष्यते ? | अथ प्रथिव्यादिगतकार्यत्वादिदर्शिनां तदप्रतिपत्तिः, एवं शिखर्यादिगतवहन्याद्यदर्शिनां धूमादिभ्योऽपि तदप्रतिपत्तिरस्तु । न चा शब्दसामान्यं वस्त्वनुगमो नास्ति इति वक्तुं युक्तम्, धूमादापि शब्दसामान्यस्य वक्तुं शक्यत्वात् । तन्न शाक्यहृष्टवा कार्यत्वादेरसिद्धar | नापि चार्वाकमीमांसकद्रप्रया तेषामपि संस्थानवदवश्यं कार्यं घटादिवत पृथिव्यादिवावयवसंयोगैराख्धमवश्यंतया विश्वियति । येषामप्यनवगतोत्पत्तीनां भावानां रूपमुपलभ्यते तेषां तन्तुव्यतिषङ्गजनितं रूपं दृष्ट्वा तद्व्यतिषङ्गविमोचनाद्विनाशाद् वा
"
For Private And Personal Use Only