________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
इत्यादिवदन्तः कालादिवादिनोऽप्यत्रोपलक्षिता निषेध्यत्वेन, द्रव्यत्वेन पश्चास्तिकायात्मकस्य लोकस्यानादिमत्त्वेन विधानाभावादेव । पर्यायविधानेन कृतार्थतामनोरथोऽपि न कृतार्थतासाधनं, केवलेन तेन तृणकुब्जीकरणविधानेऽपि कालादिना तूष्णींभावसमालम्बनात् । एष तावदागमवादं पुरस्कृत्य कर्तृवादः ।
___ अनुमानेनापि च तैः साध्यत एव कर्त्तवादो यथारुचि, यदाश्रित्योच्यतेऽनुमाय-पृथिव्यादिसंस्थानं बुद्धिमत्कर्तृकं कार्यत्वादिति पुरतो यत्तूक्तं पृथिव्यादिगतस्य कार्यत्वस्याप्रतिपत्तेः न तस्मादीश्वरावगमः पृथिव्यादीनां बौद्धैः कार्यत्वमभ्युपगतं ते कथमेवं वदेयुः। येऽपि चार्वाकाद्याः पृथिव्यादीनां कार्यत्वं नेच्छन्ति, तेषामपि विशिष्टसंस्थानयुक्तानां कथमकार्यता, सर्व संस्थानवत् कार्य तञ्च पुरुषपूर्वकं दृष्टम् । येऽप्याहुः-संस्थानशब्दवाच्यत्वं केवलं घटादिभिः समानं पृथिव्यादीनां तु न तत्त्वतोऽर्थः कश्चिद् द्वयोरनुगतः समानो विद्यते तेषामपि केवलमत्रानुगतार्थाभावः किन्तु धूमादावपि पूर्वापरल्यक्तिगतो नैव कश्चिदनुगतोऽर्थः समानोऽस्ति । अथ तत्र वस्तुदर्शनायात (न्वयात कल्पनानिमित्तमुक्तम् । अत्र तथाभूतस्य प्रतिभासस्याभावान्नानुगता. र्थकल्पना । तथाहि-कस्यचित् घटादेः क्रियमाणस्य विशिष्टां रचनां कर्तृपूर्विकां दृष्ट्वा अदृष्टकर्तृकस्यापि घटप्रासादादेस्तस्य रचनाविशेषस्य कर्तृपूर्वकत्वप्रतिपत्तिः । पृथिव्यादेः संस्थानं तु कदाचिदपि कर्तृपूर्वक नावगतं, नापि तादृशं धर्म्यन्तरे दृष्टकर्तृक इव पटादौ तत्पृथिव्यादिगतस्य संस्थानस्य वैलक्षण्यात् , ततो न ततः कर्तृपूर्वकत्वप्रतिपत्तिः । एवं हेतोरसिद्धत्वेन नैतत्साधनम् । अयुक्तमेतद्यतो यद्यनवगतसम्बन्धान प्रतिपतृनधिकृत्य हेतोरसिद्धत्वमुच्यते, तदा धूमादितुल्यम् ।
For Private And Personal Use Only