________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
लोकfafशिका
Acharya Shri Kailassagarsuri Gyanmandir
३९
कर्त्तता । तत्कर्तृत्वे न चित्रत्वं तद्वत्तस्याप्यसङ्गतम् ||८|| तस्या एव तथाभूतः स्वभावो यदि चेष्यते | त्यक्तो नियतिवादः स्यात् स्वभावाश्रयणान्ननु || ९ || वो भावश्च स्वभावोऽपि स्वसत्तैव हि भावतः । तस्यापि भेदकाभावे वैचित्र्यं नोपपद्यते ॥ १०॥ ततस्तस्याऽविशिष्टत्वाद्युगपद्विश्रसम्भवः । न चासावपि सद्युक्त्या तद्वादोऽपि न सङ्गतः ||११|| तत्तत्कालादिसापेक्षो विश्वहेतुः स चेन्ननु । त्यक्तः स्वभाववाद: स्यात् कालवादपरिग्रहात् ||१२|| कालोऽपि समयादिर्यत् केवलः सोऽपि कारणम् । तत एव ह्यसम्भूतेः कस्यचिन्नोपपद्यते ॥ १३ ॥ यता का तुल्येऽपि सर्वत्रैव न तत्फलम् । अतो हेत्वन्तरापेक्षं विज्ञेयं तद्विचक्षणैः || १४ || प्रतिपादयन्ति च स्वपक्षमेवमेते आबालगोपालाङ्गनानुभवानुरोधेन
सुतुष्टानि च मित्राणि सुकुद्धाचैव शत्रवः । न हि मे तत्करिष्यन्ति पूर्व कृतं मया ॥ | १ || शुभाशुभानि कर्माणि स्वयं कुर्वन्ति देहिनः । स्वयमेवोपकुर्वन्ति दुःखानि च सुखानि च ॥ २ ॥ वने रणे शत्रुज - लाग्निमध्ये, महार्णवे पर्वतमस्तके वा । सुप्तं प्रमत्तं विषमस्थितं वा, रक्षन्ति पुण्यानि पुराकृतानि ||३|| स्वच्छन्दतो नहि धनं न गुणो न विद्या, नाप्येव धर्मचरणं न सुखं न दुःखम् । आरुह्य सारथि - वशेन कृतान्तयानं, दैवं यतो नयति तेन पथा व्रजामः || ४ || यथा यथा पूर्वकृतस्य कर्मणः फलं निधानस्थमिवोपढौकते । तथा तथा तत्प्रतिपादनोयता प्रदीपहस्तैव मतिः प्रवर्त्तते ||५|| व्यपदिश्यमानं चान्यत्र विध्यादिशब्दैः तत्र तत्र शास्त्रेषु तदप्येतदेवेत्याख्यायन्ते, आहु:-: विधिविधानं नियतिः स्वभावः, कालो ग्रहा ईश्वरकर्म देवम् । भाग्यानि कर्माणि यमः कृतान्तः, पर्यायनामानि पुराकृतस्य ॥
For Private And Personal Use Only