________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
बदर्याः कण्टकस्तीक्ष्ण ऋजुरेकश्च कुञ्चितः । फलं च वर्तुलं तस्या वद केन विनिर्मितम् ? ॥२॥ उच्यते च-न कर्तृत्वं न कर्माणि लोकस्य सृजते प्रभुः । स्वकर्मफलसंयोगं स्वभावाद्धि प्रवर्तते ।।३।। इति
नियतिवादिनोऽप्याहु :-नियत्तेनैव रूपेण सर्वभावा भवन्ति यत् । ततो नियतिजा होते तत्स्वरूपानुवेधतः ।।१।। यद्यदेव यतो यावत्तत्तदैव ततस्तथा । नियतं जायते न्यायात् क एतां बाधितुं क्षमः ॥२।। न चर्ते नियति लोके मुद्गपक्तिरपीक्ष्यते । तत्स्वभावादिभावेऽपि नासावनियता यतः ।।३॥ अन्यथाऽनियतत्वेन सर्वभावः प्रसज्यते । अन्योऽन्यात्मकतापत्तेः क्रियावैफल्यमेव च ॥४॥ उदाहरन्ति च-प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्य भवति न भाविनोऽस्ति नाशः ।।५।। ___ पूर्वकृतवादिनस्त्वाहुः-' न भोक्तृव्यतिरेकेण भोग्यं जगति विद्यते। न चाकृतस्य भोक्ता स्यान् मुक्तानां भोगभावतः ।।१।। भोग्य च विश्वं सत्त्वानां विधिना तेन तेन यत् । दृश्यतेऽध्यक्षमेवेदं तस्मा. त्तत्कर्मजं हि तत् ।।२।। न च तत्कर्मवैधुर्ये मुद्गपक्तिरपीक्ष्यते । स्थाल्यादिभङ्गभावेन यत् कचिन्नोपपद्यते ।।३। चित्रं भोग्यं तथा चित्रात् कर्मणोऽहेतुताऽन्यथा । यस्य कर्मविचित्रत्वं नियत्यादेन युज्यते ॥४॥ नियतेनियतात्मत्वाद् नियतानां समानता । तथाsनियतभावे च बलात् स्यात्तद्विचित्रता ।।५।। न च तन्मात्रभावादेर्युज्यतेऽस्या विचित्रता । तदन्यं भेदकं मुक्त्वा सम्यग् न्यायाविरोषतः ॥६॥ न च जलस्यैकरूपस्य वियत्पाताद् विचित्रता । ऊपरादिधराभेद-मन्तरेणोपजायते ॥७॥ तद्भिन्नभेदकत्वे च तत्र तस्या न
For Private And Personal Use Only