________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका सर्वज्ञसम्भवम्यानादितामभिप्रेत्येव शिष्यगुरुत्वव्यवहारोदित्येल्पलमप्रस्तुतेन ।
एवं चश्वरमनङ्गीकुर्वन्तोऽपि कैचित कालादिवादिन आहुरम्य सचराचरस्य लोकस्य सत्तत्कर्तृत्वम् । यथाहि-कालवादिन आहुः
न कालव्यतिरेकेण गर्भयालशुभादिकम् । यत् किञ्चित् कारणं लोके तदसौ कारणं किल ॥१॥ कालः पचति भूतानि कालः संहरति प्रजाः । कालः सुप्तेषु जागति कालो हि दुरतिक्रमः ।।२।। किञ्च कालाहते नैव मुद्गपक्तिरपीप्यते । स्थाल्यादिसन्निधानेऽपि ततः फालादसौ मता ॥३।। कालाभावे च गर्भादि सर्व स्यादव्यवस्थया । परेष्टहेतुसद्भावमात्रादेव तदुद्भवात् ।।४।। तथा स्वभाववादिन आहु:
न स्वभावातिरेकेण गर्भबालशुभादिकम् । यत् किञ्चिजायते लोके तदसौ कारणं किल ॥१॥ सर्वभावाः स्वभावेन स्वस्वभावे तथा तथा । वर्तन्तेऽथ निवर्तन्ते कामचारपराङ्मुखाः ॥२॥ न विनेह खभावेन मुद्गपक्तिरपीष्यते । तथा कालादिभावेऽपि नाश्वमासस्य सा यतः ।।३।। अतत्स्वभावात् तद्भावेऽतिप्रसङ्गोऽनिवारितः। तुल्ये तत्र मृदः कुम्भो न पटादित्ययुक्तिमत् ॥४॥ एनमेयाश्रित्य पक्षं पूर्वपक्षितं गौतमीये न्यायसूत्रे-' अनिमित्ततो भावोत्पत्तिः कण्टकतैक्ष्ण्याविदर्शना 'दिति । श्वेताश्वतरोपनिषदि च कालस्वभाववादद्वन्द्वमाश्रित्योदितं निषेध्यतया, यदाह-स्वभावमेके कवयो वदन्ति, कालं तथाऽन्ये परिमुह्यमाना' इति । प्रमाणयन्ति च स्वभाववादिनोन्यत्रापि ---
कः कण्टकानां प्रकरोति तेक्ष्ण्य, विचित्रभावं मृगपक्षिणां च । म्वभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रयत्नः ।।१।।
For Private And Personal Use Only