________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
শান্ধাৰহিঙ্গা
देकाकी न रमतं स द्वितीयमैच्छन स हैतावानास यथा स्त्रीपुमांसा सम्परिश्वतो स इममेवात्मानं द्विधाऽपातयत , ततः पतिश्च पत्नी चाभवताम , तम्मादिदमर्धवृगलमिव स्व इति ह स्माह याज्ञवल्क्यः तस्मादयमाकाशः खिया पूर्यत एव तां समभवत् ततो मनुष्या अजायन्त ।३। सा हेयमीक्षाश्चक्रे कथं नु मात्मान एव जनयित्वा सम्भवति हन्त तिरोऽसानीति सा गौरभवद् ऋषभ इतरस्तां सम भवत् ततो गावोऽजायन्त वडवेतराभवद् अश्व वृष इतरो गर्दभीतरा गर्दभ इतरस्तां समेवाभवत । तत एकशफमजायताऽजेतराऽभवद् बस्त इतरोऽवि रितरा मेष इतरस्ता समेवाभवत , ततोऽजावयोऽजायन्तै वमेव यदिदं किञ्च मिथुनमापिपीलिकाभ्यस्तत् सर्वमसृजत ।। सोऽवेदहं वाव सृष्टिरस्म्यहं हीदं सर्वमसूक्षीति । ततः स्वृष्टिरभवत् मृष्टयां हाऽस्यैतम्यां भवति य एवं वेद ।५। अथेत्यभ्यमन्थन स मुखान योनेहता यां चाग्निममृजत, तस्मादेतदुभयमलोमकमन्त. रतोऽलोमका हि योनिरन्तरतः तद्यदिदमाहुः अमुं यजाऽमुं यजे. त्येकैकं देवमेतस्यैव सा विसृष्टिरेष उयव सर्वे देवा अथ यत् किन इलमा नद्रेतसोऽसृजन तदु सोम एतावद्वा इदं सर्वमन्नं चैवा. न्नादन मोम एवान्नमग्निरन्नादः सैषा ब्रह्मणोऽतिसृष्टिः यच्छ्रेयसो देवानसृजत । अथ यन्मर्त्यः सन्नमृतानसृजत तस्मादतिसृष्टिः ।६। ब्रह्म वा इदमप्र आसीत् तदात्मानमेवावेदहं ब्रह्मास्मीति । तस्मात् तत् सर्वमभवत् , तमो यो देवानां प्रत्यबुध्यत स एव तदभवत् तथा ऋषीणां तथा मनुष्याणां तद्वैतत् पश्यन्नषिर्वामदेवः प्रतिपेदेहं मनुरभवं सूर्यश्चेति । तदितमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्व भवति । तस्य ह न देवा ना भूत्या ईशने ।१०। तथा ब्रह्म वा इदमग्र आसीन
For Private And Personal Use Only