________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
- ता एता देवताः सृष्टा अस्मिन् महत्वणवे प्रापतन् तमशनाया पिपासाभ्यामन्ववार्जत् ता एवमब्रुवन्मायतनं नः प्रजानीहि यस्मिन प्रतिष्ठिता अन्नमदाम इति । ताभ्यो गामानयत् ता अब्रुवन् न के मोऽयमलमिति । साभ्योऽश्वमानयत्ता अब्रुवन् न वै नोऽयमलमिति । ताभ्यः पुरुषमानयत्ता अब्रुवन् सुकृतं बतेति पुरुषो वाव सुकृतं ता अब्रवीद् यथायतनं प्रविशतेति ( १-२-३ ) स ईक्षते मे नु लोका लोकपालाश्चान्नमेभ्यः सृजा इति ।११ सोऽपोऽभ्यतपत् ताभ्योऽभिर तप्ताभ्यो मूर्तिरजायत, या वै सा मूर्तिरजायतान्नं वै सत् ।२। इत्येतरैये । प्रजापतिर्लोकान् अभ्यतपत् तेभ्योऽभितप्तेभ्यस्त्रयी विद्या सम्प्रास्रवत् तस्या अभितप्ताया एतान्यक्षराणि सम्प्रास्त्रवन्त भूर्भुवःस्वरिति ॥१॥ तान्यभ्यतपत , तेभ्योऽभितप्तेभ्य ॐकारः सम्प्रा. स्रवत् , तद्यथा शङ्कना सर्वाणि पर्णानि सन्तृष्णानि एवमोंकारेण सर्वा वाक सन्तृष्णा ॐकार एवेदं सर्वमोंकार एवेदं सर्वमिति । (छां० २-२३) आदित्यो ब्रह्मेत्यादेशः तस्योपव्याख्यानमसदेवेदमग्र आसीत् तत् सदभवत् तत् सदासीत् तत् समभवत् सदाण्डं निरवर्तत, तत् संवत्सरस्य मात्रामशयत तन् निरभिद्यत ते आण्डकपाले रजतं सुवर्णं चाभयताम् (३-१९) प्रजापतिलोकानभ्यतपत् , तेषां तप्यमानानां रसान्प्रावृहदमिं पृथिव्या वायुमन्तरिक्षादित्यं दिवः (४-१७ ) सदेव सौम्य ! इदमग्र आसीदेकमेवाद्वितीयं तद्धक आहुः-असदेवेदमग्र आसीदेकमेवाद्वितीयं तस्मादसतः सज्जायत ।। कुतस्तु खलु सौम्य ! एवं स्यादिति होवाच कथमसतः सज्जायतेति ?। सत्त्वेव सौम्य ! इदमग्र आसीदेकमेवाद्वितीयम् ।२। तदेक्षत बहु स्यां प्रजायेयेति । तत्तेजोऽमृजत, तत्तेज ऐक्षत, बहु स्यां प्रजायेयेति ।
For Private And Personal Use Only