________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४
लोकविंशिका
इति च । तत्राभिध्यानपूर्विकायाः स्वातन्त्र्यप्रवृत्तेः कर्तति गम्यते । 'बहु स्या 'मिति प्रत्यगात्मविषयत्वाद् बहुभवनाभिध्यानस्य प्रकृतिरित्यपि गम्यते । “ साक्षाच्चोभयाम्नानात् ' ( ब्रह्म० १-४-२५) प्रकृतित्वस्यायमभ्युच्चयः । इतश्च प्रकृतिब्रह्म, यत्कारणं साक्षाद् ब्रह्मैव कारणमुपादाय उभौ प्रभवप्रलयावाम्नायेते । 'सर्वाणि ह वा इमानि भूतानि आकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्ति' (छां० १-९-१) इति । यद् हि यस्मात् प्रभवति यस्मिंश्च प्रलीयते तत्तस्योपादानं प्रसिद्धम् । यथा व्रीहियवादीनां पृथिवी । 'साक्षादिति चोपादानान्तरानुपादानं दर्शयति आकाशादेवेति प्रत्यस्तमयश्च नोपादानादन्यत्र कार्यस्य दृष्टः । 'आत्मकृतेः परिणामात् (ब्र० १-४-२६) इतश्च प्रकृतिब्रह्म, यत् कारणं ब्रह्मप्रक्रियायां तदात्मानं स्वयमकुरत' (तै० २-७) इत्यात्मनः कर्मत्वं कर्तृत्वं च दर्शयति । आत्मानमिति कर्मत्वम् , स्वयमकुरुतेति कर्तृत्वम् । कथं पुनः पूर्वसिद्धस्य सतः कर्तत्वेन व्यवस्थितस्य क्रियमाणत्वं शक्यं संपादयितुं परिणामादिति ब्रूमः । पूर्वसिद्धोऽपि हि सन्नात्मा विशेषेण विकारात्मना परिणमयामासाऽऽत्मानमिति । विकारात्मना च परिणामो मृदाद्यासु प्रकृतिखूपलब्धः। स्वयमिति च विशेषणात् निमित्तान्तरानपेक्षत्वमपि प्रतीयते । 'परिणामादि 'ति वा पृथक् सूत्रम् । तस्यैषोऽर्थः-इतश्च प्रकृतिब्रह्म, यत्कारणं ब्रह्मण एवं विकारात्मना परिणामः सामानाधिकरण्येनाऽऽम्नायते 'सच्च त्यच्चाभवत् । निरुक्तं चानिरुक्तं च ' (तै०२-६) इत्यादिनेति । 'योनिश्च हि गीयते' (ब०१४-२७) इतश्च प्रकृतिब्रह्म, यत्कारणं ब्रह्मयोनिरित्यपि पठ्यते वेदान्तेषु-'कर्तारमीशं पुरुषं ब्रह्मयोनिम् ' ( मुं० ३-१-३) इति, ' यद् भूत
For Private And Personal Use Only