________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
१३
6
लोह मणिना सर्व लोहमयं विज्ञातं स्यात् एकेन नखनिकृन्तनेन सर्व काष्र्णायसं विज्ञातं स्यात् ' ( छा० ६-१-४-५-६ ) तथा अन्यत्रापि ' कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति ' ( मुंड० १- १ - ३ ) इति प्रतिज्ञा । यथा पृथिव्यामोषधयः सम्भवन्ति (मुंड० १-१-७ ) इति दृष्टान्तः । तथा " आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्वं विदितं इति प्रतिज्ञा । स यथा दुन्दुभेर्हन्यमानस्य न बाह्यान् शब्दान् शक्नुयाद् ग्रहणाय, दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः " ( बृ० ४-५-६-८ ) इति दृष्टान्तः । एवं यथासम्भवं प्रतिवेदान्तं प्रतिज्ञादृष्टान्तौ प्रकृतित्वसाधन प्रत्येतव्यौ | यत इतीयं पञ्चमी । 'यतो वा इमानि भूतानि जायन्ते ' इत्यत्र ' जनिकर्तुः प्रकृति 'रिति विशेषस्मरणात् प्रकृतिलक्षण एवाऽपादाने द्रष्टव्या । निमित्तत्वं चाधिष्ठात्रन्तराभावादधिगन्तव्यम् । यथा हि लोके मृत्सुवर्णादिकमुपादानकारणं कुलालसुवर्णकारादीन् अधिष्ठातन् अपेक्ष्य प्रवर्तते नैवं ब्रह्मण उपादानकारणस्य सत्तोऽन्योऽधिष्ठाता अपेक्ष्योऽस्ति, प्रागुत्पत्तेः “ एकमेवाऽद्वितीय " मित्यवधारणात् । अधिष्ठात्रन्तराऽभावोऽपि प्रतिज्ञादृष्टान्तानुपरोधादेवोदितो वेदितव्यः । अधिष्ठातरि हि उपादानादन्यस्मिन्नभ्युपगम्यमाने पुनरप्येकविज्ञातेन सर्वविज्ञातस्याऽसम्भवात् प्रतिज्ञादृष्टान्तोपरोध एव स्यात् । तस्मादधिष्ठात्रन्तराभावादात्मनः कर्तृत्वमुपादानान्तराभावाच्च प्रकृतित्वम् । कुतश्चात्मनः कर्तृत्वप्रकृतित्वे ? 'अभिध्योपदेशाच्च' (ब्रह्म० १-४-२४) अभिध्योपदेशश्चात्मनः कर्तृत्वप्रकृतित्वे गमयति । सोऽकामयत बहु स्यां प्रजायेय ' ( तै० उ० २ - ६ ) इति ' तदैक्षत बहु स्यां प्रजायेय ' ( छा० )
"
'
For Private And Personal Use Only