________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
लोकविंशिका
6
चक्रे ' ( प्र० ६-३ ) स प्राणमसृजत ' ( प्र० ६ - ४ ) इत्यादि श्रुतिभ्यः । ईक्षापूर्वकं च कर्तृत्वं निमित्तकारणेष्वेव कुलालादिषु दृष्टम् । अनेककारकपूर्विका च क्रियासिद्धिलोंके दृष्टा । स च न्यायः आदिकर्त्तर्यपि युक्तः सङ्क्रमयितुम् । ईश्वरत्वप्रसिद्धेश्व । ईश्वराणां हि राज-वैवस्वतादीनां निमित्तकारणत्वमेव केवलं प्रतीयते, तद्वत् परमेश्वरस्यापि निमित्तकारणत्वमेव युक्तं प्रतिपत्तुम् । कार्यं चेदं जगत् सावयवमचेतनमशुद्धं च दृश्यते, कारणेनापि तस्य तादृशेनैव भवितव्यम्, कार्यकारणयोः सारूप्यदर्शनात् । ब्रह्म च नैवलक्षणमवगम्यते, ' निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनं ' (०६-१९) इत्यादिश्रुतिभ्यः । पारिशेष्याद् ब्रह्मणोऽन्यदुपादानकारणमशुद्धयादिगुणकं स्मृतिप्रसिद्धमभ्युपगन्तव्यम्, ब्रह्मकारणत्वश्रुतेर्निमित्तत्वमात्रे पर्यवसानादिति ।
एवं प्राप्ते ब्रूमः - प्रकृतिश्चोपादानकारणं, 'च' ब्रह्माभ्युपगन्तव्यं निमित्तकारणं च । न केवलं निमित्तकारणमेव । कस्मात् ? प्रतिज्ञादृष्टान्तानुपरोधात् । एवं प्रतिज्ञादृष्टान्तौ श्रौतौ नोपरुध्येते । प्रतिज्ञा तावत्- ' उत तमादेशमप्राक्ष्यो येनाऽश्रुतं श्रुतं भवति अमतं मतमविज्ञातं विज्ञातं ' ( छा० ६-१-२ ) तत्र चैकेन विज्ञातेन सर्वमन्यदविज्ञातमपि विज्ञातं भवतीति प्रतीयते । तच्च उपादानकारणविज्ञाने सर्व विज्ञानं सम्भवति, उपादानकारणाऽव्यतिरेकात् कार्यस्य । निमितकारणाऽव्यतिरेकस्तु कार्यस्य नास्ति, लोके तक्ष्णः प्रासादव्यतिरेकदर्शनात् । दृष्टान्तोऽपि - ' यथा सौम्य ! एकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञानं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ' ( छा० उ० ) इत्युपादानकारणगोचर एवाऽऽम्नायते । तथा ' एकेन
For Private And Personal Use Only