________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
,
1
योनिं परिपश्यन्ति धीराः ' ( मुं० उ० १-१-६ ) इति च । योनिशब्द प्रकृतिवचनः समधिगतो लोके- पृथिवी योनिरौषधिवनस्पतीनाम् इति । स्त्रीयोनेरप्यस्त्येव अवयवद्वारेण गर्भं प्रत्युपादानकारणत्वम् । क्वचित् स्थानवचनोऽपि योनिशब्दो दृष्टः - ' योनिष्ट इन्द्र निषदे अकारि ' (ऋ० सं० १ - १०४ - १ ) इति । वाक्यशेषात् त्वत्र प्रकृतिवचनता परिगृह्यते यथा उर्णनाभिः सृजते गृह्णते च ' ( मुं० उ० ) इत्वेवं जातीयकात् । एवं प्रकृतित्वं ब्रह्मणः प्रसिद्धम् । यत पुनरिदमुक्तम्- ईक्षापूर्वकं कर्तत्वं निमित्तकारणेष्वेव कुलालादिषु लोके दृष्टुं नोपादानेष्वित्यादि । तत्प्रत्युच्यते-न लोकवदिह भवि - तव्यम् । नहि अयमनुमानगम्योऽर्थः शब्द्गम्यत्वात् त्वस्यार्थस्य यथाशब्दमिह भवितव्यम् । शब्दश्च ईक्षितुरीश्वरस्य प्रकृतित्वं प्रतिपादयतीत्यवोचाम । पुनश्चैतत् सर्वं विस्तरेण प्रतिवक्ष्यामः " 1
"
१५
अत्र यद्विस्तरेण निमित्तकारणताया ऐश्वर्याः प्रतिविधानं प्रतिज्ञातं तद् द्वितीयाध्यायीयप्रथमपादीयचतुर्थसूत्रेण " न विलक्षणत्वादस्य तथात्वं च शब्दादि " तिलक्षणेन पूर्वपक्षयित्वा " अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् । दृश्यते तु । असदिति चेत् ?, न प्रतिषेधमात्रत्वात् । अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् । न तु दृष्टान्ताभावात् । स्वपक्षदोषाच्च । तर्काऽप्रतिष्ठानाद्यन्यथानुमेयमिति चेद्, एवमप्यनिर्मोक्षप्रसङ्गः" इत्यादिसूत्रकदम्बेन समर्थितम्, आगमैक चक्षुष्कत्वाच्च भिन्नमधिकरणम ।
निमित्तकारणवादिनस्तु ईश्वरः कारणं पुरुषकर्मफलदर्शनादिति पूर्वपक्षयित्वा उपादानतामीश्वरस्य न पुरुषकर्माभावे फलाऽनिष्पत्तेतत्कारितत्वादहेतुरिति प्रतिपादयाञ्चकुः वात्सायनभाष्यादौ । तथा
For Private And Personal Use Only