________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
पुद्गलस्यैव सजीवस्य वा लोकत्वेनाऽभ्युपगमात् । भवतु वा व्यवच्छेदकमपि, लोक्यमानो लोक इति व्युत्पत्त्याऽलोकस्यापि केवलाचिषोद्योत्यमानत्वेन लोकत्वाऽव्याघातान , न चात्राभिप्रेतः प्रज्ञाप्यतया स इति युक्तं विशेषणम् , तस्य केवलाकाशमयत्वात् , न पश्चास्तिकायात्मकतेति तु स्पष्टमेव । अस्तु वा आकाशस्याऽप्यस्तिकायतया तस्याऽपि पश्चास्तिकायाऽन्तर्गततया लोकशब्दवाच्यतया प्रज्ञाप्यत्वमनादिश्च सोऽपि । न केवलो लोकोऽत्र जनाबन्यादिकोऽनादितयाऽभिप्रेतो लोकाभिप्रेतः, किन्तु पञ्चास्तिकायात्मक इति विशेषणमिति । उभयत्रापि व्यवच्छेद्यमाहुः-"न परमपुरिसाइकओ". त्ति । तत्र नेति निषेधे । निषेधश्च पराभिमततया लोकस्य सकर्तृकत्वाभावात् । किं निषेधनीयम् ? , इत्याहुः-" परमे "ति । तत्र परमः-उत्कृष्टः, उत्कृष्टत्वं च परैरणिमाद्यैश्वर्यसम्पन्नतया स्वीकारात् । यत उच्यते तैः-"ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च सहसिद्धं चतुष्टय" ||१|| मिति । ऐश्वर्य चाष्टधा, यदाहुः-" लघिमा वशितेशित्वं, प्राकाम्यं महिमाणिमा ।
यत्र कामावसायित्वं प्राप्तिश्चैश्वर्यमष्टधा " ।।१।। इति तत्र लघोः “पृथ्वादेरिमन् " [-१-५८] इतीमनि " त्रन्त्यस्वरादेः " [७-४-४३ ] इत्यो कि च लघिमेति । यतः सूर्यरश्मीनप्यालम्ब्य सूर्यलोकादिगमनसमर्थों भवति स लघिमा । अनेन च न यावल्लोके कार्यकरणेऽपि सामर्थ्याऽभावः, अन्यथा हस्तिनेव सूच्याऽऽदानादि न महच्छरीरादिमानपि सर्वत्र क्रियासमर्थः स्यात् । तथा गमनादिशक्त्यभावात् । स च न परप्रेरणयाऽनात्मवशंवदतया वेत्याहुः-तथा “ वशिता"। यया सर्वाणि चरा
For Private And Personal Use Only