________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
अनादिता किं परमाण्वादो द्वयणुकादावस्ति, नास्ति अनादितापीति चेद्, द्रव्यरूपेण, न तु पर्यायरूपेण, पर्यायाणां च नैवाभ्युपगम्यते अनादिता, न च साध्यतेऽपि । विवर्त्तमानो लोकस्तु पर्यायरूप इति कथमनादिमान् भवतीति चेत् ? सत्यम् , नाम्ति विवक्षितानां पर्यायाणामनादिता, परं द्रव्यस्याऽविच्छिन्नग्रवाहापेक्षया अनादिमत्त्वे द्रव्यस्य च पर्यायव्यतिरेकेणाभावात, पर्यायत्वेन पर्यायाणामप्यनादिता अविच्छिन्नैव । न च सकर्तृकत्वे विश्वस्य भवति पर्यायाणामविच्छिन्ना वृत्तिरनादिमती, तदभावे च स्पष्टव द्रव्यत्वक्षतिः, क्षतेश्चास्य स्पष्टमेवास्तिकायताव्याघातः , प्रदेशानामद्रव्याणामप्रदेशस्य चास्तिकायत्वाभावात् । न च वाच्यं व्यर्थविशेषणो हेतुः, अस्तिकायत्वमात्रेणाऽनादितासिद्धेः, न पञ्चशब्दः प्रयोज्य इति । हेत्वपेक्षया व्यर्थत्वेऽपि लोकस्वरूपोद्दशेनैव तथाकरणात् । न च लोकेऽस्त्येकोऽपि प्रदेश आकाशम्य ताहक , यत्राऽस्तिकायपञ्चकं न समाविष्टम् , का वार्ता तिर्यगलोकस्येति । न च भूभूधरादिर्लोकेऽप्येकस्य पुद्गलादेरभिधावान् , तद्वृत्त्यसुमदादीनामपि तेनैव व्यपदेशादिति सामान्यवाक्यार्थापेक्षया 'पञ्चे'ति । हेतुतावस्थायां परित्याज्यं पञ्चेति ।
अन्ये तु व्याचक्षते-नायमनुमानसूचको वाक्यप्रयोगः , किन्त्वभिधेयतात्पर्यार्थः । तथा च पञ्चास्तिकायमयत्वविशेषणविशिष्टो दृश्यमानो, मनसा व्यपदिश्यमानो वा लोकोऽनादिमान् इत्युपदिष्टम् । विशेषणं च यद्यपि व्यवच्छेदकं “सम्भवव्यभिचाराभ्यां स्याद् विशेषणमर्थवदि "तिवचनात् । तथाप्यनाविभूतस्वभावस्य भावस्याविर्भावनायाऽपि विशेषणस्य सम्मतत्वाद् ‘आपो द्रवा उष्णोऽग्नि'. रित्यादि । न च ज्ञातं परैर्लोकस्वरूपं यथार्थतया, भूभूधरादेः
For Private And Personal Use Only