________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
न बहुवचनान्तता। तथा प्रदेशत्वात् परमाणोरस्तित्वं तथा द्वयणुकादीनामप्यस्तयः तेषां सर्वेषां परिणतानां च कायः-अस्तिकायः । न चैवं काले व्यापत्तिः , कायत्वाभावात् । प्रतिस्कन्धं चैवं सति पुद्गलास्तिकायता प्रतिजीयं चास्तिकायता, प्रदेशसमूहभावात् अस्तिकायत्वम् । तथा च “आऽऽकाशादकद्रव्याणि " तथा “ अजीवकाया धर्माऽधर्माऽऽकाशपुद्गला' [ तत्त्वार्थ० ] इति "धर्माधर्माकाशान्येकैकमतः परं त्रिकमनन्तं । कालं विनाऽस्तिकाया" | प्रशमरत्तिः ] इत्यादि च सर्वमुपपद्यते । तत्त्वतन्तु परिणतप्रदेशराशीनामस्तिकायता, परमाणूनां तु परिणामाहत्वेन तथात्वमिति । पञ्च अस्तिकाया अस्मिन्निति पञ्चास्तिकायमयः " अस्मिन् " [सि. ७-३-२] इति मयट , अपूपमयं पर्वतिवन् । न चाधिकरणभेदाभावादयुक्तमिति मयट्प्रत्ययकरणं, लोकशब्दवाच्यसमुदायस्य तथाविवक्षयाऽविरोधात् , तन्तुमयः पट इतिवत् । नहि तत्र प्राचुर्ये प्राधान्ये वा प्रकृतार्थरूपे मयट् । किन्तु · अस्मिन् ' इत्यनेनाव्यतिरेकेऽपि । यथा तन्तुपटयोर्भेदेन विवक्षा मयट् च, एवमत्रापि, अबयवावयविभावस्तु उभयत्रापि समान एव । प्रत्येकं तन्तोः पटत्वाभाववत् प्रत्येकमस्तिकायस्य लोकत्वाभावो वतते एव । मयटयइर्वा [५०] इति प्राकृतसूत्रेण च 'मइउ 'त्ति । के अस्तिकायाः पञ्च ? कथं चैषां सिद्धिरिति प्रकरणकारा यदाऽऽख्यास्यन्ति क्रमेणैताँस्तदा भविष्यति स्पष्टमिति न त्वरणीयम् । कोऽयमित्याह-" लोउ "त्ति । पूर्वमष्टधा प्रतिपादितेपु लोकभेदेषु द्रव्यलोकस्य जीवाजीवद्रव्यात्मकस्येहाधिक्रियमाणत्वात् स एव ग्राह्यः। नाम-स्थापना भव-भाव-पर्यायलोकानां द्रव्यलोकाव्यतिरेकात् तत्रानादित्वनियमानभ्युपगमाच्च ।
For Private And Personal Use Only