________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
क्षेत्रकालौ तु द्रव्यलोकान्तर्गतावेव वैशद्याथैव च पृथगुक्ताविति तद्व्याख्यान एवं प्रतिपादितं तन्न तयोरपि ग्रहः । यद्वा-लोकशब्दवाच्यो भुवनादिरविवृत एव लोकशब्देन ग्राह्य इति पूर्व प्रतिपादि. तमेव पक्षहेत्वोर्भदायेति । कीदृशोऽयम् ? इत्याह-"अणाइमं "ति । आदीयते इति आदिः । “ उपसर्गादः कि" | ५-३-८७ ] रिति कौ सिद्धिरिष्टरूपस्य । आदिरस्यास्तीति आदिमान् “ तदस्यास्यस्मिनिति मतु [७-२-१ ] रिति मतुः । असतो लब्धजन्मत्वं प्रागभावप्रतियोगित्वमित्यर्थः । न तथा अनादिमान् । अन्यथाकरणे तु " न तत्पुरुषान्मत्वर्थीयो बहुव्रीहिश्चेत्तदर्थप्रतिपत्तिकर" इति नियमेन मतोरनुचितत्वप्रसङ्गः । न चानादिरिति पदार्थवर्ती धर्मः, यतो भवेन्मत्वर्थीयः । भावप्रत्ययलोपेन विधानेऽपि समाधानस्य कथञ्चित् पूर्वोक्तनियमबाधस्तु दुर्वार एव । किमित्याह-“वट्टए"त्ति । वर्ततेप्रवर्तते स्वस्वानुभावेन । अनेन द्रव्यत्वेनाऽवस्थितस्याऽपि पश्चास्तिकायात्मकलोकस्य नवनवपर्यायोत्पाद-प्राक्तनपर्यायविनाशौ नापलप्येते इति ज्ञाप्यते, ज्ञाप्यते च तेषामध्येककर्तृत्वाभाववत्त्वमिति । यद्वा-वर्तते' इत्यनेन यथा वृत्तिर्लोकस्य तथैवाख्यायते, नत्वसदभिनिवेशादिना कुतर्कादिनेति ध्वन्यते । तादृशो वक्तुस्तत्त्वावबोधपथप्रतिबन्धकत्वप्रतिज्ञानात् । व्यवहृतलोकस्य विशेषेण पक्षत्वमितिज्ञापनायाऽऽहुः-' इमो 'त्ति । अयं लोक इति पूर्वं व्याख्यातम् । इदन्ता च प्रत्यक्षवर्तिन्येव । " इदमस्तु सन्निकृष्टे समीपतरवर्ति चैतदो रूपम् ।
अदसस्तु विप्रकृष्टे तदिति परोक्षे विजानीयाद् " ॥ इतिनियमात् पक्षश्च मुख्यतया प्रमाणसिद्ध एव ग्राह्य इति
For Private And Personal Use Only