________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
पक्षता विशेषरूपेण हेतुता च 'प्रमाणं वस्तुनिश्चायी' त्यादौ सर्ववादिसम्मतैवेत्यलम् । अधुना पुरत एतस्यैव विस्तारेणाभिधास्यमानत्वात् ।।
अत्र पञ्चेति सङ्ख्या । अस्तयश्च प्रदेशाः । पारिभाषिको ह्ययमस्ति प्रदेशवाचकः । “ असूच क्षेपणे " इति देवादिको धातुः । अभ्यते-क्षिप्यते-विविच्यते वस्तु अनेनेत्यौणादिको 'मुषिकृषिरिषी' [६५१ ] त्यादेविहितस्तिः बाहुलकाद् बहुवचनज्ञापितात्तौ । यद्वा'" बहुल" मितिवचनात स्त्रैणोऽपि क्तिर्वाऽत्र । तेषां काय:-'चिंगट चयने ' इति सौवादिकात चिति-देहावासोपसमाधाने कश्चादे' [ सि०५-३-७९ ] रित्यनेन चेचि चस्य कत्वे च, काय इति । तथा च प्रदेशसमूहवानिति फलिनोऽर्थः ।
ननु चवं परमाणोर्न स्याल्लोकता, तस्य नास्ति यतः प्रदेशसमूहो " नाणो" रिति वचनात , परमाणुत्वव्याहतेश्च अन्यथा, प्रदेशमात्रेण सङ्ग्रहे च कायशब्दवैयर्थ्यम् , कालस्याप्यस्तिकायत्वापत्तिः , तम्यापि समयलक्षणत्वेन प्रदेशरूपत्वादिति चेन् । सत्यं, प्रदेशसमूहवद्धृत्त्यसाधारणतत्तद्धर्मवत्त्वेन परमाणोग्रहात कालम्य चोपेक्षणात् । चट्ठा-न केवलः परमाणुरनादितः कोऽपि, किन्तु स्कन्धादिपरिणतपूर्व एवानन्तशः, असङ्ख्यकालातिक्रमे अवश्यं परमाणोः केनापि परमाण्वादिना संयोजनान्न नास्त्यस्तिकायता । न चैवं कालस्य समयलक्षणस्य । यद्वा-प्रकृष्टो देशः प्रदेश इति व्युत्पत्तेः परमाणोराज्यव्याहतमेव प्रदेशत्वम् । न च समयस्यावयवता कथञ्चनापि, अतीतानागतयोविनष्टानुत्पन्नत्वात् । यद्वा-प्रदेशानां समूहस्य सज्ञेयम् , कायशब्दम्य च राश्यादिवद् बहुपदार्थवाचकत्वेन बहुत्वेऽपि
For Private And Personal Use Only