________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका कार्यकारणे, तयोर्भावः कार्यकारणभावः, तेन हेतुना वर्तन्त इत्यनुशीलनीयः सरलः पन्थाः। तथा चाऽऽकाशस्य धर्माधर्मासुमत्पुद्गलानामवकाशदानात् कारणत्वं, परेषां च तद्हणेन तथापरिणमनात् कार्यत्वम् । शक्तिरूपेण वा भूतपूर्वापि शक्तिर्व्यक्तिरूपेणोद्भूता याऽऽकाशस्य तत्कार्यम् । कारणं च निमित्ताख्यं, धर्माद्या अनादितो जीवाद्याश्चेति परस्परं कार्यकारणभावः । धर्माधर्मयोरप्याकाशवदेवोह्यम् । इयाँस्तु विशेषः यद्गतिस्थितिजीवपुद्गलापेक्षया तयोः परस्परं कार्यकारणभावः । आकाशस्य तु गतिमत्त्वाभावाद् धर्मास्तिकायांपेक्षया गतिनिमित्ता अधर्मापेक्षया च स्थितिनिमित्ता नास्ति यतः तदभावात् गतिनिवृत्तिनान्तरीयकजायमानस्थितिपरिणामोपष्टम्भकत्वादेव अधर्मास्तिकायस्य । गतिश्च तस्य सर्वव्यापकत्वादसम्भविन्येव ।
अनेन प्रतिक्षिप्तमेतद्-जीवपुद्गलानां स्थित्युपष्टम्भको यथा अधर्मास्तिकायः तथा धर्माकाशयोरपि स्वस्वस्थाने स्थितिमत्त्वात कथं नाऽधमोपष्टम्भकारवामिति । अन्यथा अलोकेप्याकाशस्थितिसद्भावात् तत्राण्यामस्वीकारेण लोकळ्यवस्थाविलोपापत्तेः । अनेन स्वस्वभावप्राप्तिलगाया गतेराकाशेऽपि सत्त्वादुत्पादव्ययध्रौव्ययुक्त। त्वाद् वस्तुमात्रख्यालोकेऽपि धर्मोषगमप्रसङ्गो निरस्तः । तथा जीवमुगलयोः परस्परं कार्यकारणभावः। स च भाव्यः-जीचा हि ज्ञानलक्षणा क्षेयं च पुद्गलादि । धर्मादीनां वितरोऽपि विद्यते कार्यकारणभाव-इति न विवक्षितास्ते । तथा परिणमन्ते पुद्गलास्तथा तथा जीवप्रयोगतः । उच्यते ग्चात एव-' उप्पाओ हु विगप्पो ‘पओमजणिओ अ वीससा चेव तिः। वैससिकस्यापि पर्यायस्य पारम्पर्येण
For Private And Personal Use Only