________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
तदुद्भवत्वाविरोधात् । तथा च पश्चानामप्यस्तिकायानां परस्परं कार्यकारणभावेन वर्तनमध्याहतमेव । हेतुसा वाऽत्र स्वस्वशक्तेरेष करणत्वात् ।
ननु चैवं सति स्यादेवानन्तकालातिक्रमेण परिवर्तनस्वभावत्वात् पदार्थानां ' लवणाकरे पदार्था लवण 'मिति न्यायादितरेतरद्रव्यत्वापत्तिः अस्तिकायचतुष्टयाद्यवशेषता च । यद्वा-धर्मादीनामधर्मादितया अधर्मादीनामपि धर्मादितया च परिणामोऽनशरीरन्यायेनेति चेद्, अत्राहुः भवे ण परसरूवेत्ति । 'भवेत्ति भवेयुन, अश्रद्धायां पञ्चमीविधानात् नैतत् श्रद्धातुमपि शक्यम् । किं तत् ? 'परस्वरूपा' इति । परेधर्मादेरधर्माद्याः तेषां स्वरूपमिव स्वरूपं येषां ते परस्वरूपा उष्ट्रमुखादय' इति समासः। नहि भवंति धर्मादितया परिणममानानामप्यधर्मादीनां परस्परमन्योन्येषां स्वरूपं यतः। यद्वा-तत्सादृश्ये तद्वथपदेशात् सोऽयं गकार इत्यादिवत् परेषां स्वरूपं येषां ते परस्वरूपा इति व्यधिकरणो बहुव्रीहिः । भवति च 'एकार्थं चानेक च' इत्यत्र चकारस्यैकार्थमित्यतोऽपिग्रहणात् अयमपि साधुः । पुँल्लिङ्गता चास्तिकायापेक्षया 'एए अणाइनिहणा' इत्यत्रापि तथैवापेक्षितम् ।
प्रथमं तावत् पञ्चानामप्यस्तिकायानां मध्ये नैको न्यूनः सन्नलंभविष्णुलोकस्थितिः, धर्माधर्मावृते गतिस्थित्यमावेन पर्यायपरावृत्यभावादुत्पादव्ययध्रौव्यवियुक्ततापत्तेः गतिस्थित्योरेवाभावाद्वा । आकाशस्याभावे तु कुत्रापि न स्यात् स्थानं धर्मादीनाम् , जीवपुद्गलानां घाभावे गतिमदादिशून्यत्वात् स्पष्टैव धर्मादीनां स्वभावहानिः , तन्न विनैकेनापि शेषाः सर्वे सन्तोऽपि निर्वाहयन्ति लोकस्थिति, तन्नैव भवेयुः परस्वरूपा इति यथार्थमेव । यद्वा-न कारणं तेषां स्वरूप
For Private And Personal Use Only