________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५०
लोकविशिका मनोद्रव्यपरिणमनाद् सजिनामेव भण्यते । अत एवोच्यते'सञ्जिनः समनस्का' [तत्त्वा०] इति ।
ननु क्रिमप्रसिद्धतममुच्यते एतद्यद्-सर्वेषां मनस्तद्विशेषेणैव च सञ्जीत्यादिव्यपदेश इति चेत् । सत्यम् , प्रथम सामान्यतस्तावदवधारय-'प्रार्थनाप्रतिघाताभ्यां चेष्टन्ते द्वीन्द्रियादयः । मनःपर्यायविज्ञानं युक्तं तेषु न चान्यथा ॥ इति सिद्धसेनीयं० 'सवेसि चउ दह वा सन्न 'त्ति प्रसिद्धतरं च वाक्यं, सज्ञाया अभिलाषरूपत्वादभिलाषस्य च सङ्कल्पविकल्परूपत्वेन मनस्त्वानपायादिति । विशेपस्तु सज्ञित्व विचारो हि अयमिति स एवोच्यते महापुरुषप्रणीतगाथाभिः
'जइ सण्णासंबंधेण सण्णिणो तेण सणिणो सव्वे । एगिंदियाइयाण विजंसण्णा दसविहा भणिया। विशेषा०] एगिदियाणं भंते ! कइविहा सण्णा पण्णत्ता ? गोयमा! दसविहा, तं जहा-आहारसण्णा भयसण्णा मेहुणसन्ना परिग्गहसन्ना कोहसण्णा माणसण्णा मायासण्णा लोहसण्णा ओहसण्णा लोगसण्णा [प्रज्ञापना । एवं द्वीन्द्रियादीनामपी'ति प्रज्ञापनासज्ञापदसत्कस्पष्टाक्षरसद्भावादेवमुक्तम् । परिहारस्त्वत्रैवम्-'थोवा न सोहणा वि यजं सण्णा नाहिकीरण इहई । करिसावणेण धणवं न रूववं मुत्तिमेत्तेणं' ।। मूर्तिश्च रूपादिसंस्थानाश्रय इति पूर्व व्याहृतमेव, कथं व्यपदेशस्तीत्याहुः-'जह बहुदब्बो धणवं पसत्थरूवो अ रूव होइ । महईए सोहणाए य तह सपणी नाणसण्णाए' । ति । अत्र हि प्रशस्तया महत्येव ज्ञानावरणक्षयोपशमजन्यमनोज्ञानसञ्जयव सज्ञित्वम् । सज्ञा च त्रिधा ज्ञानरूपा, यदाहुः-'सा सण्णा होइ तिहा कालिय-हे उ-दिदठिवाओवएसेण'ति । तत्र कि कालिक्याः स्वरूपम् ? इत्याहुः
For Private And Personal Use Only