________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
१४१
वागयोगरूपवाचिकेन योगेन निसगों वाच ? इति चेत् । सत्यम् , जीवव्यापारसम्पाद्यत्वाद् वचोयोगता रूपादिकाश्च काययोगगता एवेति तेऽपि योगान्तर्गता एव । तथा वाग्योगस्य कायव्यापारनिर्वय॑त्वान्न योगताक्षतिः, लब्धिमतां द्वीन्द्रियादीनामेव तद्भावात् । केवलकाययोगत्वे चैकेन्द्रियाणामपि भवेद्वाग्योगः , तथैव जीवव्यापारः कायव्यापारो विशिष्ट एव वाग्योगविसर्जनपरायणो वाचिको योग इति न काचिदपि क्षतिः । सिद्धान्तेऽभिप्रेत्यैतदाहुः___गिहिज्ज काइएणं किह निसिरइ वाइएण जोगेण । को वाऽयं बा जोगो कि वाया कायसंरंभो ॥१|| वाया न जीवजोगो पोग्गलपरिणामओ रसादिव्व । न य ताए निसिरिजइ सच्चिय निसिरि
जाए. जम्हा ।।२।। अह सो तणुसंरंभो निसिरइ तो काइएण बत्तव्यं । तणुजोगविसेसच्चिय मण-वयजोगत्ति जमदोसो ॥३।। अहवा तणुजोगाहिय-वइव्वसमूहजीववावारो। सो वइजोगो भण्णइ वाया निसिरिज्जइ तेणं ॥४॥ ति । तथा वाग्योगो जीवस्य पुद्गलप्रचयोपष्टम्भक पवेति सुष्ठूच्यते वागिति ।
तथा मन इति । तत्र ‘मनिट झाने मनूयी बोधने' इति देवादिकः तनादिकश्च, तस्माद् ‘अस्' [९५२] इत्यौणादिकेऽसि सिद्धं मन इति । मन्यते-चिन्तयत्यनेन, मनुते-अवबोधत्यनेनेति वा मनः । मनोवर्गणापुद्गलानाहत्य कायिकेन योगेन मनस्तया परिणमय्य मोचनं, मन्यमानानि मनोद्रव्याणि मन इति तत्त्वम्, तथा चाहुः-'तह तणुवावाराहियमणव्वसमूहजीववावारो। सो मणजोगो भण्णइ मन्नइ नेयं जओ तेणं ॥१॥ ति । एतच्च सामान्यतः सर्वेषामपि, धनबाहुल्येन धनी प्रशस्तरूपवत्त्वेन रूपीत्यादिव बहुल.
For Private And Personal Use Only