________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४८
लोकपिशिका
____ 'खंधो वि वीससाए न पराघाओ य तेण चउसमऔ । अह होज पराधाओ हविज्ज तो सो वि तिसमइओ' ॥ तथा च ने समुदधातवचित्तमहास्कन्धवद्वा भाषाद्रव्याणां लोकठयापिता । अन्ये घुनरन्यथाहुः तन्निराचिकीर्षयाहुः-' एगदिसिमाइसमए, दण्डं काऊण घउहि पूरेइ । अन्ने भणंति तंपि य नागमजुत्तिखमं होइ'। आगमविरोधः श्रेमिस्थितस्यापि पराधातद्रव्याणामेक श्रवणात् , युक्त्या तु यदि पुद्रलानामनुश्रेणिगमनं स्वभावस्तर्हि किमित्येकदिक एव दण्डो येनेदमुक्तं युक्त्यनुसारि स्यात् इति पर्यालोचने ! अथ प्रयत्नजन्यो हि शब्दः , प्रयत्नश्च ताल्वादिद्वारा, वक्ता च दिगभिमुख इति तदा विश्रेणिमुखे तस्मिन् विश्रेणिस्थितो मिश्रं श्रृणुयादित्यापन्नम् , पटहादीनां तु न प्रयत्नो न चैकदिक्क इति तच्छन्दव्यापकता अन्यैव वाच्या, सन्नैतदादर्तव्यमागमातिभिः ।
मन्यास्तां तावल्लोकव्याप्त्यादिविस्तरः, परं कायिकेन गृहीत्वा वाचिकेन मिसृजति वक्तेति प्राक् प्रतिपादितम् । तत्र कथमन्यो गृह्णाति मुञ्चति चान्यः, कोपा कायिको योगः? , कथं वा वाचिकेन निसर्गों भाषायाः ? । सत्यम् , एकजीवविहितत्वान्नष विरोधः । नहि. वामेन हस्तेनाऽऽदाय दक्षिणेन नार्पयितुं शक्यते दृश्यते वा विरोधः । कायिको योगश्च जीवस्थ कर्मपरवशतया गृहीतपरिणामितौदारिकादिकायजनितो व्यापारः, तदुपगृहीतश्च वचननिसर्गव्यापारी वाचिको योगः।
अत्राह-ननु वाक् कथं योगः ?, यतः पुद्रलपरिणामः सा, पुद्गल. परिणामस्यापि च योगत्वे तस्याः, रसादीनामपि भवेद्योगता स्यादिति । किञ्च-कथं कायव्यापाराहतवागद्रव्यविसर्गस्य भिन्नयोगता, कथं च
For Private And Personal Use Only