________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
घाए' । ति । विरोधश्चैवं यत् समुद्घातगत्या लोकपूरणे यथा समुद्घाते प्रथमसमये ऊर्ध्वाऽधोलोकान्तस्पर्शी भवति दण्डः, तथाऽत्रापि भवेद् । एवं च ऊर्ध्वाऽधोव्यवस्थितानामेव मिश्रशब्दश्रवणं सम्पद्येत, न पूर्वापरदक्षिणोत्तरासु दिक्षु । यथा हि घिदिक्षु पराघातवासितान्येव शब्दद्व्याणि श्रूयन्ते तथा दिश्वपि प्रसज्येत, यदि च 'समश्रेणिस्थित' इत्यस्य ‘व्याख्यानतो विशेषप्रत्तिपत्तिर्नहि सन्देहादलक्षण 'मितिन्यायादूर्वाऽधःश्रेणिस्थित इति क्रियते व्याख्यानं, 'विभणिस्थित' इत्यस्य चोर्धाधोव्यतिरिक्तश्रेणिस्थित इति, न स्याद् यद्यपि सूत्रविरोधः स्पष्टः, तथापि नतद्युक्तं, कथमिति चेत्, उक्त. ' जइ तो ची'यादि । समुद्घाते हि जीवप्रदेशानामेव व्यापारः , अत्र तु चासितानामपरेषामपीति नात्र कपाटकरणकालो योग्यः । तथा च दण्डादनन्तरमेव मन्थीभावात् स्पष्टैव विसामयिकी न्याप्तिभवदनिष्टा समापयेत ।
ननु कथं वैषम्यमेतयोरिति चेत् , स्पष्टमेतदुच्यते-'जइणे न पराघाओ स जीवजोगो य सेप्प चउसमओ। हेऊ होज्जाहि तर्हि इच्छा कम्मं सहावो वा' ॥ यथाहि शब्दपराघातपरिणतशब्दद्रव्यामामपि शब्दद्रन्यकार्यकरणं न तथा केवलिसमुद्घाते इति विषमता । तथाऽप्रेऽपि वाच्यम् । स समुद्घातो जीवव्यापारभूतः, अयं तु स्वाभाविकः । तत्र हि केवलिप्रयत्नविहिता ब्याप्तिः , अत्र तु नैवं तथापि तत्र कपाटकरणे केवलिनामिच्छा कर्म तथाविधं स्वभावो वा , अत्र तु नवते युक्ता हेतव इति, भाषाद्रव्याणां स्वनु अणिगमनं पराघातपरिमतिश्च स्वभावः । तथा च स्यादेव दण्डादनन्तरमेव मन्याः, न तु कपारमिति । काशकुशप्रायमालम्बयन्तमपाकुर्वन्ति--
For Private And Personal Use Only