________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६
लोकविंशिका रज्जूच्छ्रितो रज्जुबाहल्यदण्डः । एष च पराघातद्रव्यनिर्मितदण्डैर्भवति, तदेव च लोकमध्ये वासितद्रव्यदण्डोद्गमैरुत्तरदक्षिणलोकान्तगमनं, दण्डाश्च चतुरङगुलविस्तृता एव, तृतीये तु मन्था ऊर्ध्वाधोदण्डात लोकमध्ये च ये दण्डास्ते विस्तृताः पुनस्त्रसनाडी व्याप्नुवन्ति, एवं च लोकस्य सङ्ख्याततम एव भागः स्पृष्टश्चतुःसमयापेक्षया तृतीये चतुर्थे तु सर्वो लोकः स्पृष्ट एवेति, पञ्चसामयिक्यपेक्षया तु लोकस्य भाषाया अपि चासङ्ख्येयतम एव भागः स्पृश्यते, तत्र दण्डीभावाद् । भावना च सुकरैव, चतुर्थ च समये दण्डमथीभावात् पूर्वप्रतिपादितयुक्तेर्लोकस्य भाषायाश्च सत्येयतमो भागः , पञ्चमे तु पूर्णत्वात् सर्वोऽपि लोकः स्पृष्टः । एतच्च सर्व तीव्रप्रयत्नवक्तभाषामाश्रित्यैव, अन्यस्य तु लोकव्यापनस्यैवाभावात् । तथा च ' लोगम्स य चरमंते चरमंतो होइ भासाए.' इति सम्पद्यते, परं समयवैषम्यमित्येतदेवाह
'आपूरियमि लोगे दोण्हवि लोगस्स तह य भासाए । चरमंते चरमंतो चरमे समयंमि सव्वत्थ ।। त्ति । चरमान्तव्याख्यानं चालो. कगमनाभावप्रतिपादनाय भाषाया, अन्यथा लोकव्याप्तिकथनेनैव तत्प्राप्तेः । किमत्र प्राप्तं किं समयचतुष्केन त्रिभिर्वा समयैः पञ्चभिर्वेति ? चेद् , अस्तु सर्वेऽप्येते आदेशाः , परं चतुःसामयिकं यत् समुद्घातगत्येति यदादेशान्तरं, तदुपेक्षणीयमिति दूपयन्तस्तदाहुः
'न समुग्धायगई। मीसयसवणं मयं च दंडंमि । जइ तो वि तीहि पूरइ समाहि जओ पराधाओ' ।। अत्र यद् दण्उसमये मिश्रश्रवणविरोध आपादितः । मिश्रश्रवणं चैवमाम्नायते यथा-' भासासमसेढीओ सुणेइ जं सुणइ मीमयं सदं । विसेटी पुण सदं मुगेइ नियमा परा
For Private And Personal Use Only