________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४४
लोकविंशिका
प्रवचनवचनमाश्रित्य । एतच्चाऽन्यतथावासनोत्पादकाभावापेक्ष्या ज्ञेयम् । एवं च सुरालयविमानेषु सङ्ख्यातीतयोजनायामेषु हरिणगमैषिघोषणाश्रवणमपि सङ्गच्छते, अपूर्वापूर्वघण्टावृन्देन तदनुवादात् , विद्युच्छब्दयन्त्रेप्येवमेवोत्पद्यते शब्दः । यद्वा-विप्रकिरणविरहतोऽधिकमपि यायात् तदा कोऽपि न विरोधः स्वाभाविकव्याख्यानस्य ताभ्यामिति । कथं च लोकव्याप्तिरित्युपदर्य एकीयमतं सिद्धान्त यिष्यन्त आहुः
'जइणसमुग्घायगइए केई भासंति चउहि समरहि । पूरइ सयलो लोओ अण्णे उण तीहि समरहिं' । घटनामाह-' पढमसमए च्चिय जओ मुक्काई जति छद्दिसि ताई।बीयसमयंमि ते च्चिय छदंडा होति छम्मंथा। मथंतरेहि तइए समए पुन्नेहि पूरिओ लोगो' इति । अत्र यत् प्रथमसमये गमनं तत् समुद्घातीया दण्डा मन्धानश्चैकस्मिन्नेव समये ते, लोकमध्यस्थितभाषकापेक्षयेतत् । एतच्च स्वयम्भूरमणापरपर्यन्तवर्तिनो भाषकस्य भाषापेक्षयाऽप्यवगन्तव्यं, लोकान्तासन्नीभावभावात्तत्र ।
केचित्तु प्रसनाड्या बहिरपि चतुसृषु विश्ववस्थितस्येत्यपि ब्याचक्षते, परं सम्भावनामात्रमेव तत्, सनाड्या बहिबसाना बाचकानामेवासम्भवात् । चतुर्भिः समयैर्लोकपूरणे घटनामाह-'दिसिवठितस्स पढमोतिगमे ते चेव सेसया तिन्नित्ति । स्वयम्भूरमणपयन्तस्याऽप्यूर्वाधोऽलोकस्खलितत्वात् चतुर्भिरेव पूरणं, प्रथमे लोकप्रवेशात् शेषास्त्रयः पूर्ववत् । अन्यत्र सनाड्यां प्रवेशः प्रथमेन । वसनाडीबहिर्विदिक्स्थितभाषकापेक्षया तु पञ्चभिरेव लोकपूरणं समयैः , कथमिति ? युक्तिमाह- विदिसिठियस्स समया पंचाइ
For Private And Personal Use Only