________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
१४३
श्रूयते वा ? , आकस्मिकविनाशभीते द्धितीयविकल्पाश्रयणे कथं न श्रूयते ? कीदृशी साऽवतिष्ठते कुत्रेति चेद्, आहुरत्रेति । यद्वा-भाषाद्रव्येषु विसृष्टेषु गत्यापन्नानि तानि किं यावत् कियता कालेन कथं च गच्छन्तीत्यादिद्वापरविरेकायोच्यते ससमाधानम् । तत्रारेका यथा___'कइहि समएहि लोगो भासाए निरंतरं तु होइ फुडो । लोगस्स य कइभागे कइभागो होज भासाए' ।। अत्र समाधानं-'चउहि समएहिं लोगो भासाए निरंतरं तु होइ फुडो । लोगस्स य चरमंते चरमंतो होइ भासाए' । आये पक्षे श्रवणयोग्यतारहितत्वाद् व्याप्तावपि न श्रवणम् , अन्त्ये तु स्पष्टमेव । अथ किं सर्वैवं, नेत्याहुः
'कोई मंदपयत्तो निसिरइ सयलाइ सव्यदव्वाइं । अन्नो तिब्वपयत्तो सो मुंचइ भिदिउं ताई' ॥ तथा च प्रयत्नद्वैविध्यात् किमित्याह-'गंतुमसंखेज्जाओ ओगाहणवग्गणा अभिनाई । मिजंति धंसमिति य संखिज्जे जोयणे गंतुं'। अवगाहनवर्गणाश्च भाषाद्रव्यस्कन्धाश्रयभूतक्षेत्रविशेषसमुदायः । एतच्च ‘जाइं अभिन्नाई निसिरइ ताई असंखेज्जाओ ओगाहणवग्गणाओ गंता भेयमावज्जंति, संखिज्जाइं जोयणाई गंता विद्धंसमागच्छति 'त्ति सूत्रमाभित्यावसेयम् । न मन्दप्रयत्नोत्सृष्टानि सर्व लोकं व्याप्नुवन्तीति तत्त्वम् , तद्रव्याणां स्थूलत्वात् तत एव तथा वृद्धयभावात् तथाऽवासकत्वाच्च । अन्योत्सृष्टानि तु
‘भिन्नाइ सुहुमयाए अणंतगुणवढियाइ लोगंतं । पावेंति पूरयंति य भासाइ निरंतरं लोगं'। एतदपि 'जाइं भिन्नाइनिसिरइ ताई अणंतगुणपरिबुड्ढीप परिवढमाणाई लोयतं फुसंति 'त्ति
For Private And Personal Use Only