________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८
लोकर्विशिका
नियमितः, न त्वेवमति वाच्यम् । वैक्रियाहारकारम्भकयोः स्फूर्त्यादिमावापेक्षया तथाकाले तद्विधानाभावात् । तैजसकार्मणे त्वनाद्यन्ते अभव्यापेक्षया, भव्यापेक्षया चानादिसान्ते एव ।
ननु च तैजसकार्मणयोः कथं तथा स्थितिः ?, यत औदयिके एवैते अपि, उदयश्च कर्मणां स्थित्यपेक्षः, स्थितिश्चोत्कृष्टतोऽपि सप्ततिसागरकोटीकोटीमाना इति चेत् । सत्यम् , कालेनैतावता बद्धे ते अवश्यं विनश्यत एव, परं यथौदारिकं वैक्रियं वा गत्यन्तरे विजह्यते सर्वथा, नैवैवमिमे, अवश्यं उदयवत्त्वाद् अनयोः । मुक्तानां सर्वथा विलयाद् भव्यानामेव तद्भावाच भव्यानपेक्ष्य अनादिसान्तता । न च वाच्यं तर्हि औदारिकादीनामप्यन्यान्यपुद्गलागमापगमभावात् न युक्तैव यथोक्ता स्थितिरिति । विहितोत्तरत्वात् , यन् नाऽऽभवं विरहितस्तैर्जन्तुः , भवान्ते चावश्यं विप्रजहातीति । ___ अल्पबहुत्वं च-आहारकाणि तावत् सर्वाल्पानि, कदाचिच्च न तानि भवन्त्यपि, यदि भवन्ति तदापि नवसहस्राण्येवोत्कृष्टतः । अन्तरं च जघन्यत एकं समयमुत्कृष्टतः षण्मासाः । वैक्रियाणि तु तद्वतां वायु-देव-नारकाणामसङ्ख्येयत्वात् असङ्ख्येयगुणानि । अस
ख्यातं चासङ्ख्येयोत्सर्पिण्यवसर्पिणीसमयमानम् , औदारिकाणि तु ततोऽप्यसहस्येयगुणं (गानि)मनुष्यतिरश्चां तद्भावात् । असङ्ख्यातता च वैक्रियशरीरस्थानप्रतिपादितैव ।
ननु 'जीवा पोग्गल' इत्यादिना जीवानामानन्त्यात प्रत्येकं शरीरवत्त्वस्य नियमात् कथं युक्तमेतावत्त्वमेषामिति ? चेत् । सत्यम् , यदि प्रत्येकं भिन्नमेव स्यादौदारिकं, स्यादयुक्तता यथोक्तपरिमाणम्य, तदेव तु
For Private And Personal Use Only