________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका रीत्या लोकाकाशीयसमग्रप्रदेशावगाढे। औदारिकादीनां चोक्तावगाहना ' असख्ये यभागादिषु जीवाना 'मित्यादिवचनाद् अवगन्तव्या । कारणस्य द्वितीयव्याख्यानापेक्षया तु यद्यपि न पौनरुक्त्यम् , तथाप्याद्यव्याख्यानापेक्षया तु म्यादेव तदिति केचित् । ननु प्रमाणादस्य कः प्रतिविशेष ? इति चेत् । सत्यम् , प्रमाणं तु सूचिवद् दीर्घस्य प्रतरापेक्षया भवेन्महत् , परं नावगाहनेति भिन्नताऽस्य सप्रयोजनैव द्वारस्य ।
स्थितिसम्पाद्यश्च भेदः । तत्र स्थीयतेऽनयेति स्थितिः । स्त्रियां क्तिः । अवस्थानहेतुस्तद्रूपेण स्थापकः कालस्ततश्च औदारिकादीनामवस्थानकालस्तद्रूपेण वाच्योऽत्र । जीवपरिगृहीतिं यावदिति तु स्वयमेवाभ्यूह्यम् । अन्यथा वक्ष्यमाणस्थितेः सिद्धान्तोक्तबद्धमुक्तस्थितिकालेन विरोधापातात । औदारिकस्य तावत् स्थितिकालो जघन्येनाऽन्तर्मुहूर्त्तमुत्कर्षतः पल्योपमत्रयं च, तद्वतां नृतिरश्चां जघन्यत उत्कर्षतश्चैतावत स्थितिकत्वादिति । वैक्रियम्य जघन्येनान्तमुहर्त्तमुत्कृष्टतः त्रयस्त्रिंशत् सागरोपमाणि । कथं ? यतो न देवानामग्दिशवर्षसहस्रथा न्यूना स्थितिः । सत्यम् , परमन्येषां वाय्वादीनां तद्भावस्य पूर्वमुक्तत्वात , तेषां च जघन्यत एतस्थितिकत्वात् । आहारकं त्वन्तर्मुहूर्त्तस्थित्येव जघन्यत उत्कृष्टतोऽपि, आरभ्य नवभ्यः समयेभ्य आरान् मुहूर्तादन्तर्मुहर्त्तत्वाख्यानान् ।
ननु वैक्रियाहारके लब्धिप्रत्यये अपि भवतः, आयुषश्च भयोsनियत इत्यारम्भकाल एव मृतम्य कथं नैकसमयो जघन्यतोऽनयोः ? नयते तैजमकार्मगवद् भवान्तरानुयायिनी, न चौदारिकवत नियतः पर्याप्तभावोऽपि, यतो नहि औदारिकप्रारम्भकोऽसमाप्य तकृत्वा चेन्द्रियपर्याप्ति म्रियते जन्तुः कोऽपीति नियम आयुबन्धावश्यकता
For Private And Personal Use Only