________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
न विद्यते, अनन्तानामनन्तकायिकानां काये एकस्मिन्नवस्थानात् । तैजसकामणे त्वनन्तगुणे, अनन्तं चानन्तोत्सर्पिण्यवसर्पिणीसमयमानम् , कथमेतद् ? यतो नहि औदारिकाविशरीरहीनानां भवत एसे विहाय गत्यन्तरालस्थान् । असत्यभागश्च तादृशान् औदारिकादिमतोऽपेक्ष्येति । सत्यम् , सर्वेषामसुमतां भिन्नभिन्नमेवैते इति जीवप्रमाणत्वादेतयोः न यथोक्तबाहुल्यव्याघातः । यथाहि शरीराणि पुद्गलानामुपकारः, तथाख्यानेन आख्यायि एतद्यदुत-कार्मणं कमैंव। तथा च य आहुः-धर्माधर्मों गुणाविति, ते चिरस्ताः । यतः कस्यायं गुणः ?, आत्मनः पुद्गलानां वा ? । आये, सिद्धभावापन्नानामपि कथं न तौ ?। अन्त्ये, स्पष्टव द्रव्यता तयोः ।
तथा बागिति । तत्रोच्यते इति वाग । सापि पुद्गलानामेवोपकारः । यत उच्यते-'यत्र पुद्गलस्कन्धस्य वर्णभावापत्तिः तत्स्थान - मिति स्थानशब्दव्याख्याने हेमसूरिभिः । अन्यश्चापि तथैवोक्तं, यदाऽऽपिशलि:-' नाभिप्रदेशात प्रयत्नप्रेरितः प्राणां नाम वायुरूप्रमाक्रमनुरःप्रभृतीनां स्थानानामन्यतमस्मिन् स्थाने प्रयत्नेन विधार्यते, सच विधार्यमाणः स्थानमनिहन्ति, तस्मात् स्थानाभिधाबाद् ध्वनिरुत्पद्यते आकाशे, सा वर्गश्रुतिः, स वर्षस्यात्मलाभ' इत्यादि । अवापि पुद्गलजन्यस्वमेवरभ्यधायि वर्णानाम् । वैशेषिकाद्या आकाशगुणत्वेन शब्दमङ्गीचक्राणा अपि पुद्गलजन्यत्वं त्वामनन्त्येव, मूर्तसंयोगविभागाभ्यां नदुत्पादाभ्युपगमात् । परा-पश्यन्ती-मध्यमा-वैसरीस्वरूपनिरूपका वाण्या नैवत्स्वरूपं अपलपन्छि । भाषावर्मणाग्रहयानन्तरं यथा प्रयत्नमोचने च वार सम्पद्यते इति तु परमर्षिव्यवहारः । उच्यते चात एव
For Private And Personal Use Only