________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
गोचरदेशयोः । शब्दादौ जनपदे चेति । गोचरश्च यथेन्द्रियाणां तथा गतेरपीति नासङ्गतं किञ्चित् । तत्रौदारिकवतां विद्याधराणां आनन्दीश्वरात् , जधाचारणविद्याचारणानां त्वारुचकात् तिर्यग्लोकविषय एषः । उर्ध्वं तु पाण्डुकवनान्तम् । वैक्रियवतां देवदानवादीनां असल्येयद्वीपसमुद्रावसानं यावद्गमनात् तावान् । आहारकस्य तु तद्वतो जिनमूलगमननियमाद् यावन्महाविदेहान् , ऋद्धिदर्शनार्थावग्रह-संशयव्युच्छेदानां तत्रैव भावात् । तैजसकार्मणे तु तद्वत्त्वात् सर्वस्य सर्वत्रैव विषयः , विग्रहगतिसमापन्नानां सर्वत्र भावात्. केवलयोरेतावद्विषयताऽव्याहतैव । केवल्यपि च समुद्घातगतः समस्तलोकव्याप्येव चतुर्थे समये ' लोकव्यापी चतुर्थे त्वि 'तिवचनात् । कार्मणं तु तत्रापि 'कार्मणशरीरयोक्ता चतुर्थके पञ्चमे तृतीये च' [प्रशम०] इति वचनात् । तैजसं च तत्सहचरितमेव । युक्त उपरितनाक्तोऽनयोर्विषयः ।
स्वामिनश्च तिर्यग्मनुष्या औदारिकस्य, 'गर्भसम्मूछेनजमाद्य' तत्त्वा०] मितिवचनात् । देवा नारकाश्च वैक्रियस्य, 'वैक्रियमोपपातिक 'मितिवचनात् । मनुष्यतिरश्वामपि स्यात् चेल्लब्धिः भवेदेवै. तद् । यत आहुः-' लब्धिप्रत्ययं च ' इति । पारिशेष्याच्चात्र नृतिरश्वामिति लभ्यते । तियश्चश्च न सर्वे, किन्तु वाय्वादिका विशिष्टाः । नरा अपि च गर्भजा एव । आहारकस्य तु चतुर्दशपूर्वविद्भिरेव विधानात् मनुष्यसंयतानामेव । अन्त्ययोस्तु सर्व एव संसारिणः 'सर्वस्य' तत्त्वा०] इत्यस्य सर्वेषां संसारिणामित्येव व्याख्यानात् ।
तथा प्रयोजनतो भिन्नता एषाम्-औदारिकं तावत् धर्माधर्मसुखदुःखकेवलज्ञानावाप्त्यादिनाऽर्थवत् । विशिष्टतामपेक्ष्य 'धर्माधर्मा
For Private And Personal Use Only