________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
१३३
fearन्यत् कारणतो विषयतः स्वामितः प्रयोजनतः प्रमाणतः प्रदेशसङ्ख्यातोऽवगाहनतः स्थितितोऽल्पबहुत्वत इत्येतेभ्यश्च नवभ्यो विशेषेभ्यः शरीराणां नानात्वं सिद्धमिति । तत्र कारणतस्तावत् स्थूल तरपुद्गलोपचितमौदारिकम्, यदपेक्ष्य 'उरलं भेवपएसोबचियं च महलगं जहा भिंड 'मिति प्रतिपादितम् । वैक्रियं च ततः सूक्ष्मपुद्गलैः, आहारकं तु ततोऽपि सूक्ष्मैः तैजसं सूक्ष्मतरैः कार्मणं सूक्ष्मतमैश्व निर्वर्तितं स्यादिति । अत्र कारणमुपादानकारणमिति । निमित्तकारणं तु सर्वत्राप्यविशेषेणात्मप्रयत्न एव । यद्वा-कारणमुत्पfrकारणम्, तचौवारिकस्य स्त्रीगर्भादि, वैक्रियस्य देवशय्या-कुम्भीपाक- लब्ध्यादि, आहारकस्य तु लब्धिरेव, तैजसस्य सातापनं तपः प्रभृति उष्णवीर्यपुलादानं वा, कार्मणस्य पुनर्मिध्यात्वादिकं योगावसानमिति व्याख्येयम् ।
"
"
,
नन्वाद्यं परित्याज्यमेव व्याख्यानम्, यत इतः पञ्चमे विशेषद्वारे प्रदेशसङ्ख्येति द्वारं वक्ष्यन्त्येव । सत्यम् परं प्रदेशसङ्ख्या बहुत्वं विद्यमानमपि स्थूलत्वानुसार, अन्यथा बृहत्परिमाणं कार्मणमेव भवेत् सर्वेषु एतच्चतुर्थं प्रमाणद्वारं वक्ष्यन्ति ततोऽवगन्तव्यं भविष्यत्येतत् । सत्यमेतदपि परं तत्र समग्रशरीरप्रमाणं चिन्त्यते, न तु प्रदेशस्थौल्यमिति नापकर्णनीयं प्रथमं व्याख्यानम् । 'परं परं सूक्ष्म मिति वचनमप्येतदर्थमेव । अन्यथा ' प्रदेशतोऽसङ्ख्येयगुण ' [तत्त्वा०] मित्यादिवचनतो निरर्थकता स्यादस्य ध्रुबैव ।
तथा विषयतः, तत्राऽन्यत्र तावज्ज्ञानेच्छाकृत्यादिषु प्रसिद्धो विषयः, शरीरस्य तु नैव । तथापि शरीरवतां गतिमपेक्ष्य विषयो वाच्यः । तथा चानेकार्थीयं वचः - ' विषयो यस्य यो ज्ञातस्तत्र
I
For Private And Personal Use Only