________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१३२
Acharya Shri Kailassagarsuri Gyanmandir
arafafaar
विविधकर्मणां विकाररूपमित्यनेन तु बन्धानन्तरमेव एतादृशव्यपदेशभाक्त्वमाद्यते । अत एव च षष्ठयते-कार्मणं हि स्वस्यान्येषां वा शरीराणां कारणमिति ।
1
ननु च यदि कर्माष्टक निष्पन्नमेतत् किं तर्हि नामकर्मभेदभूतमिदम् ?, नामकर्मप्रकृतिष्वेव च 'गइजाइतणुअंगे' यत्र शरीरशब्देन पञ्चानामप्यौदारिकादीनां ग्रहणादिति चेत् । सत्यम्, यथाहि औदारिकादीन्यात्मना स्वायत्तीकृतानि तथा तथाऽऽत्मानं परिणामयन्ति तथैवैतदपीति नामकर्मान्तर्गणनप्रयोजनमवेयते । अत एव कार्मणे न बन्धनाने अपि शास्त्रकृद्भिराम्नायेते । स्थितिस्त्वस्य कर्मापेक्षया या लघीयसी, सा परिणामान्तरतामेवापेक्ष्येति ।
कर्मैव वा कार्मणम् । अत्र च बद्धकर्मणामेव कर्मता समाम्नायि आम्नायवेदिभिः । एतद्द्व्युत्पत्तिप्रयोजनं तु निरुपयोगिताव्यवहारेण ख्यापनम्, यत उच्यते ' निरुपभोगमन्त्य 'मिति । तथा च यैरुच्यते वर्गणानां परिवर्तनाभावात् किमिति नाङ्गीक्रियते कार्मणस्यैक तथा तथापरिणाम औदारिकादिसकलवस्तूनामिति परास्तम् । यतो यद्यप्यस्य सर्वतन्वनन्तगुणत्वान्न पुगलप्रदेशसङ्ख्याविरोधः तथापि नैतत्पुद्गलाः सामान्येन आत्मना तथा परिणमयितुं शक्या इति पृथक्छेषवर्गणाऽऽदानं आवश्यकमेव । तत एव च कर्ममयं कार्मणमियप्यनुसन्धेयं बुद्धिमद्भिः । यन्न ह्येतस्यान्यः परिणामः कोऽपि भवत्युपभोगाय वा साक्षादागच्छति, सूक्ष्मतमपरिणामोपेतत्वात् । एषां
शरीराणां यथा सञ्ज्ञान्वर्थताकृतो विशेषः, तथा कारणादिकलापकृतोपि ॥ यतः उच्यते एभ्य एव चार्थविशेषेभ्यः शरीराणां नानात्वं सिद्धम्
For Private And Personal Use Only