________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
१३१ शीतनिसगों भवेत् कथं तत ? इति चेत् । सत्यं, लब्धिप्रभावेनैव तत्पुद्गलानां . तथापरिणामः । यथा शापवितरणप्रवृत्तो लब्ध्यैव तेजोनिसर्ग तेजःस्वभावं करोति, तथा अनुग्रहप्रवृत्तो भाषितात्मा शीतनिसर्गं करोति तदेव तथापरिणमय्य, एष एव च प्रभावस्तस्येति । अत एव च भाष्यादौ शापानुग्रहप्रयोजनमित्याख्यायि ख्यातकीर्तिभिर्महापुरुषैरस्योभयथा प्रयोजनम् । ___ तथा कार्मणं पश्चमम् । तत्र क्रियते-मिथ्यात्वाविरत्यादिहेतुभिः निवर्त्यते यद् जीवेनेति कर्म । न च वाच्यं सदात्विक्येव कर्मवर्गणा, लोकस्याञ्जनपूर्णसमुद्कवत्तया पूर्णत्वात् किं निर्वय॑ते तेनेति । वर्गजानां सदात्विकत्वेऽपि प्रकृत्यादिको बन्धो मिध्यात्वादिभिरेव विधीयते, संसों वा जीवेनाऽस्या एभिरेव विधेयः । नहि लोकस्थत्वमात्रेण स्वावगाहप्रदेशस्थत्वमात्रेम वा कर्म कुर्यात् स्वकार्य झानावरमादि, किन्तु जीवप्रदेशैः सह क्षीरनीरवत् सम्बद्धमेवान्योन्यानुगततया । ___ अनेन ये आहुः कथं कर्म तिरस्कुर्याद् गुप्पाद् बद्धमबद्धं वा । आये, कथं बन्धः सर्वतोऽभिव्याप्य वा?। आझे, कर्मणो निरावार्यस्व. प्रसङ्गः आवार्यस्यान्तरेव सद्भावात् तदसम्बन्धाच्च कथमावरणता, अन्यथा सिद्धानामपि लोकस्थकर्म भजेदाधारकताम् । प्रान्त्ये च कथमावारकता, समप्रदेशत्वादुभयोः । असम्बद्धत्वेऽपि चावारकत्वे तु स्पष्टैच सिद्धनानानामप्यावार्यतेति । निरासश्च पूर्वोक्तरीत्या आवरणादिसम्भवस्याप्रत्यूहत्वादिति । कर्मणो विकारः कार्मणम् , अष्ठानामपि विकारो भयपदिश्यतेऽनेन, यदाहुः-'कम्मविगारो कम्मण अविहविचित्तकम्मणिप्फण्णं । सधेसि सरीराणं कारणभूयं मुणे. यब्वं ॥१॥ ति । ' कर्मविकार' इत्यनेन वर्गणानिर्देशः । अष्टानामपि
For Private And Personal Use Only