________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३०
लोकविशिका
अत्र 'सर्वस्य उम्हसिद्ध 'मित्यनेन प्रमाणं दर्शितं, औदारिकस्य प्रत्यक्षसिद्धत्वाद् वैक्रियाहारकयोश्च लब्धिप्रत्ययमेवाविर्भावात् । ' रसाद्याहारपाकजनकं ' रसादिलक्षणो य आहारपाकः तस्य जनकं, आहियमाणो हि आहारः श्लेष्माशयं च प्राप्य द्रवीभवति, अम्लीभवति च प्राप्य पित्ताशयं, वाय्वाशयं च प्राप्य यावद् विभज्यते, पश्चात् तदन्तरेवानेन खलरसौ क्रियेते विपाच्येति प्रयोजनं ज्ञापितम् । वक्रियाहारकयोः पूर्वं ज्ञापितमेव । औदारिकमपि सर्वेषां विशिष्टशरीररहितानां गमनागमनादि - दानादानादिक्रियायै भवति । ज्ञापितं चैतदौदारिकशब्देनैव, अन्यथा वृद्धयाद्यभावात् । ' तैजसलब्धिनिमित्त'मित्यनेन विशिष्ट कार्यमस्य प्रादर्शि तेजसलब्ध्या निमित्तमिति विग्रहाद् | अन्याचार्यपक्षे तु चकारस्यैवकारार्थत्वे, तस्य च व्यव - स्थावाचित्वे एवं व्याख्येयम् - तैजसलब्धिः निमित्तं यस्य तत्तैजस लब्धिनिमित्तमित्याख्यान्ति केचित् नयवादान्तरं चेतदिति । विचित्रा हि नयवादाः । केचित् कारणप्रधानाः केचित् कार्यप्रधानाः, तन्नैघोsव्यसङ्गत आगमानुसारेण पूर्वव्याख्यात एव पक्षः, तेजसकार्मयः सर्वदा सर्वस्य प्रत्येकं भावाभिधानात् । तेजसो विकारस्तैजसम्, तेजोविकारत्वं चोष्णवीर्यपदार्थजन्मत्वात् । कर्म तु मूलकारणभूतमस्त्येव सर्वत्र । तेजोमयं वा तैजसं, तेजस्मयता चोष्णस्पर्शववात् । तेजःस्वतत्त्वं वा तैजसं, यदा हि जाता लब्धिस्तैजसी, प्रादुर्भूतं च प्रयोजनम्, निःसारयति तदा असावनेन तद्वान् ज्वलज्वालामालावलीढ शिखासहस्र परिकरितमनलं योजनशतसहस्रगतयास्तदाहसमर्थमिति यथार्थमेवास्य तेजःस्वतत्त्वतेति ।
"
नन्वस्तु तेजोनिर्गमः तैजसशरीरजन्यः तैजसलेश्यया, परं
For Private And Personal Use Only
-