________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
दिलब्धिसद्भावाद् आहारकलब्ध्यपेक्षया विशिष्टलब्ध्येति । चैक्रियलब्धिश्च ‘स्समणेणं० ' इत्यादिभगवत्यागमशेखरपाठात् स्पष्टैव ।
ननु च स्यादेवं शरीरपञ्चकं, निषिद्धमपि युगपदेकस्याऽऽचतुर्य' तत्त्वा०] इति वचनेनेति चेत् । सत्यं निषिद्धं, न तु लब्धिनिषेधो विहितस्तेनेति । सत्यों वैक्रियलब्धौ किमित्याहारककरणमिति चेद् , असावद्यत्वादप्रमत्तत्वाच्चैतस्य । वैक्रियमुपजीवन हि नियमेन प्रमत्त आरम्भकश्च तस्य, अस्य त्वारम्भे प्रमत्ततासद्भावेऽपि उपजीवने सुतरामप्रमत्ततेति किं न पर्यालोचयथ ? 1 अत एव च 'शुभ विशुद्ध 'मिति पठ्यते आहारकस्वरूपाख्याने । आ-मर्यादया रल्यादिकया, नियमस्त्वेषः, अन्येषामनेवंविधत्वात् । हियते-गृह्यते इत्याहारः, तदेवाहारकम् । अथवा स्वभावस्थत्वलक्षणया मर्यादया हरणं-ग्रहणम् । चैक्रियं हि दण्डकरणादिप्रयोजनकविशिष्टसमुद्घातादिना क्रियते, नैवमिदं, शरीरस्थायिनैव अस्य साध्यमानत्वात् 1 सामान्यो ह्यस्य समुद्घातः, नैवं वैक्रियादेरिति ! आहरति-गृह्णाति हितमेतदिति आहारकम् । कर्तरि णविधानात् । हितानुबन्ध्येवेतन , नान्यतनुवदनियतम्, हितायाहियते वेति । आहरणप्रधानं वाऽऽहारकम् , 'यतो न तावद्वैक्रियवत् स्थूलपुद्गलनिष्पन्नमेतत् 'प्रदेशतोऽसङ्ख्येयगुणं प्राक्तैजसाद्' [तत्त्वा०] इति नियमाद् । अत्यन्तमाहार्या एवं तत्पुद्रला नैतावन्त एतावन्मात्र वैकियकरण आहरणीया इति प्रयत्न 'बाहुल्यादाहरणक्रियायो तत्प्राधान्यमेतस्येति ।
तथा तैजसं शरीरं, तच्च ‘सव्वस्स उम्हसिद्धं रसादिआहारपागजणगं च । तेयगलद्धिनिमित्वं ते यग होइ णायव्वं' ।।॥ नि ।
For Private And Personal Use Only