________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२८
लोकविशिका
सत्कारिकाभेदेन भिन्नं वितिमिरतामित, स भिन्नाक्षरः। तस्य च श्रुतज्ञानसंशयापगमात् प्रश्नाभावः । ततश्च आहारकलब्धि सतीमपि नवोपजीवति विनालम्बनेन, स एव श्रुतकेवली भण्यते । शेषः करोति, तस्य कृत्स्नश्रुतज्ञानालाभादवीतरागत्वाच्च [ तत्त्वार्थटीका ] इति । तत् पूर्वगाथया विरोधमधिरोहदासीत् । यतः आहारकवर्णनपरायां पूर्वस्यां श्रुतकेवलिन आहारककरणमाख्यायि, परं संशयापनोदमात्रनिराकरणप्रयोजनं न तस्य तत्करणं, स्याद्यदि, तथापि प्राणिदयर्द्धिदर्शनार्थे तु तस्याप्याहारककरणमुचितिमञ्चत्येव । तत्त्वतस्तु श्रुतकेवलिनामप्यवीतरागत्वात् भवत्येव कचित्तथाविधेऽतिसूक्ष्मे आरेका । यत उच्यते-' नहि नामाऽनाभोग छद्मस्थस्येह कम्यचिन्नास्ति । ज्ञानावरणीयं हि ज्ञानावरणप्रकृति कर्म' ॥ इति । श्रुतकेवलित्वं च प्रज्ञाप्यार्थप्ररूपणामाश्रित्य केवलज्ञानान्वितश्रीमदकलङ्कभगवत्तुल्यत्वादेवेत्यनुसन्दध्मः , कथमन्यथा 'संखाईए उ भवे साहइ जं वा परो उ पुच्छिज्जा । न य णं अणाइसेसी वियाणइ एस छ उमत्थो' ॥१॥ त्ति । पारमर्षव्यावर्णितमहिमवतामपि भगवतां गौतमपादानां संशयादि सङ्गच्छेतेति ।
अर्थावग्रहश्चापूर्वस्यातीन्द्रियस्य पर्यायादेर्वा सङ्ग्रहः तस्मै, संशयश्च पूर्वोक्तरीत्या यो जातः , तद्वयुच्छेदाय । श्रुतज्ञानस्य नहि सर्वे पर्याया विषयो न वा सर्वद्रव्यविषयकमध्यक्षम् । ततः सम्भवत्येव संशयोत्पादोऽवगते ऽपि चार्थे, भवत्येव वा संशयः अवग्रहनिश्चययोभिन्नत्वात् निश्चयविशेषाय वा संशयस्योपपद्यमानत्वाद्वाऽनुभव सिद्धम् । नन्वस्तु परं 'विसिट्ठलद्धीए 'त्ति किमर्थं ? सत्यं, भवेन्निरर्थकं यदि अतकेवलिना आहारकाख्यैव लब्धिर्भवेदेका, परं वैक्रिया
For Private And Personal Use Only