________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकfafशका
१२७
विविधा - अणु भूत्वा अनणु भवति, अनणु भूत्वा अणु भवति, एक भूत्वा अनेकं भवति, अनेकं भूत्वा एकं भवति, एक कृति भूत्वाऽनेकाकृति भवति, अनेकाकृति भूत्वा एकाकृति भवति, दृश्यं भूत्वाserयं भवति, अदृश्यं भूत्वा दृश्यं भवति, भूमिचरं भूत्वा खेचरं भवति, खेचरं भूत्वा भूचरं भवति, प्रतिघाति भूत्वाऽप्रतिघाति भवति, अप्रतिघाति भूत्वा प्रतिघाति भवति, युगपद् वा एताननुभवति भावानित्यादिलक्षणा क्रिया विक्रिया, विशिष्टा वा जिनजनिमहादिका क्रिया विक्रिया, तस्यां भवं वैक्रियम् । यद्वा -- असङ्ख्ययोजनदण्डनिःसरणार्थसमुद्घातकरणादिका क्रिया विक्रिया, तस्यां भवं वैकि यम् । भवधारणीयं तु तज्जातीयमिति । विकरणं वा अनेकावस्थानु गमनं विक्रिया. तत्प्रधानं वैक्रियम् ।
"
तथा आहारकम् । तत्र - ' कज्जमि समुप्पण्णे सुयकेवलिणा विसिटठलद्धीए । जं एत्थ आहरिज्जइ भण्णइ आहारगं तं तु ॥ १ ॥ पाणिदय - रिद्धिसंदरिसणत्थमत्थोवमगहणहेडं वा । संसयवोच्छेयत्थं गमणं जिणपायमूलंमि ||२॥ ति । आहारकशरीरप्रयोजनान्याचख्युः । तत्र प्राणिदयाख्यं यद्यपि न कचिद्विवृतं दृश्यते, तथासंमूछिमजन्तुप्राचुर्ये आवश्यकगमनकार्ये चास्य सूक्ष्मत्वेनाविराधकत्वात् करणमस्य सम्भाव्यते । ऋद्धिदर्शनं च । समवसरणादिका या श्रीमज्जिन पतेरविकारिणी प्रभूतासुभृदुपकारिणी ऋद्धिः, तस्याः सम्यक्त्वा अन्यस्मै वा प्रयोजनाय अवलोकनम् ।
.
अनेन य आहुः - चतुर्दशपूर्वधरचतुर्दशपूर्ववित् । स च द्विविधः भिन्नाक्षरोऽभिन्नाञ्जरश्च । तत्र यस्यैकैकमक्षरं श्रुतज्ञानगम्यपर्यायैः
For Private And Personal Use Only