________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६
लोकविंशिका
परिभासा ॥३॥ गीर्वाणभणित्यपेक्षया तु उद्गत-उत्पन्न आ-मर्यादया अरो-वृद्धिः, तस्य क्रमेणैव वृद्धिः, नैवं वैक्रियादिषु । तानि हि अक्रमं वर्धन्तेऽवस्थितान्यपि च भवन्ति । उत्कट आ-मर्यादया अरो वा प्रादुर्भावो, यथा नियमेनादो नरतिर्यग्भवेषु, त एव च भवा जीवानां बाहुल्येन भवन्ति यतः । यद्वा-अस्यैव प्रत्यक्षमुत्पादात् तीव्रोत्पत्तिमत्त्वम् । उत्-प्राबल्येन यत्र तत्रेति-यावत् गमः-प्राप्तिर्यस्येति वोदारम् । अस्यैव सर्वत्र प्राप्यमानत्वात् । तद्वतामेव यतः सर्वलोकेषु भावः, सूक्ष्मा यतस्तद्वन्त सर्वत्र ते इतिकृत्वा । उर्व गमः-अवबोधो वा अस्येति । वैक्रियादीनि नावतिष्ठन्ते असुमदुज्झितानि, इदं तु तथैवावतिष्ठते इतिकृत्वा । उचं गमो वा विनाशो यस्य । यतो वयःपरिणामे हीयते एवेदं, न तु वैक्रियादीनि । यात्रज्जन्म देवनारकाणां तद्वतामवस्थितशरीरभावात् । लेश्येव केवलं तेषां हीयते इति । उर्ध्वम्-उपादानादनन्तरं तत्तयोपलक्षणरूपो गमो यतोऽस्येति वा । यतो यथा वैक्रियादीनि अण्वाद्यवस्थोपगतानि भूत्वा विपरीतावस्थान्यपि भवन्ति, नैवमिदं किन्तु प्राह्यदाहछेद्यादिगुणयुतमेव सर्वदा । स्थूलं वा उदारम् । स्थूलता च पोषाद्वर्धनाद्वा । महत्पूज्यं वा उदारम् , तद्वतां तीर्थकरगणधरादीनां पूजाऽवसरे तस्यैव पूज्यमानत्वात् । उदारमेव चौदारिकमित्यौदारिकम् । स्थूलपुद्गलोपचितत्वाद्वा उदारम् । स्थूला एव पुद्गला एतत्तया परिणमितुं योग्याः । इतरेषां तत्तयाऽग्राह्यत्वाद् । अत एवोच्यते-'परं परं सूक्ष्म 'मिति । 'प्रदेशतोऽसङख्येयगुणं प्राक्तैजसात् ' [तत्त्वा०] इति च । इत्यौदारिकशरीरम् । ___अथ वैक्रियम् । तत्र ‘विविहा व विसिट्ठा वा किरिय विकिरिया तीइ भवंतमिह । वेउव्वियं तयं पुण नारगदेवाण पयईए ॥१॥
For Private And Personal Use Only