________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
दी 'ति । यतः सम्पूणों ज्ञानादिको वा धर्मः तद्वतामेवाधर्मोऽपि च महारम्भादिकः । सुखं चात्र प्रशमादिप्रभवम् , अन्यत्तु वैक्रियवतामपि सातिशयम् । दुःखं च ज्वरादिजन्यं आध्युद्भवं वा, अन्यथा तु महायातना एव नारका वैक्रियवन्तः , परं परस्परोदीरितं सक्लिष्टासुरोदीरितं तु तेषां । वैक्रियं देवानपेक्ष्य स्थूलसूक्ष्मैकत्वानेकत्वव्योमचरक्षितिगतिविषयाद्यनेकविभूतिमत् , नारकानपेक्ष्य तु पारदवत् पुनः संयोगो दुःखौघसहनतानुत्पिपासाशीतोष्णादिनाऽविद्रावणमित्यादि, नृतिरश्चां तु यथेप्सितमन्यान्यत् । तैजसस्य तु आहारपाकः शापानुग्रहप्रदानसामध्यं च । कार्मणस्य पुनर्भवान्तरगत्याद्यनेकविधम् । भवान्तरगतौ हि केवलं कार्मणमेवेत्येवं व्यपदिश्यते । __ प्रमाणतस्त्वेवं विशेषः-यत् औदारिकं तावत् सातिरेकयोजनसहस्रमानम् , तद्वतां वनस्पतीनां समुद्रादौ तथाऽगाधे भावात् प्रमाणयोजनमितत्वात्तम्य, शेषस्य पृथ्वीपरिणामत्वात् । न च वाच्यं तत्रानेका जीवाः तिलवर्तिकान्यायेनेति । व्यापिन एकस्य जीवस्यापि तत्राभ्युपगमात् । अभ्यूज़ चैतद् द्वितीयाङ्गीय-द्वितीयश्रुतस्कन्धीयाहारपरिज्ञाध्ययनतः स्पष्टम् । वैक्रियं तु योजनलक्षप्रमितम् । ___ ननु प्रतिपादितं तावदौदारिकस्वरूपाख्याने 'वित्थरवंतं वणस्सई पप्प ' इति । अत्र च महत्तरं वैक्रियमेवोच्यते औदारिकात् शतगुणं किञ्चिन्न्यूनं यत इति चेत् । सत्य, नैतावदेतत् स्वाभाविकं, तत्तु पञ्चधनुःशतमानमेवेति नोक्तव्याघातः । उत्तरवैक्रियं हि एतावत् , तच्च पक्षात् परतो न तिष्ठति ‘देवेसु अद्धमासो 'त्ति वाक्यात् । आहारकं तु रत्निप्रमाणम् , रत्निश्च ‘बद्धमुष्टिरसौ रत्नि'रितिलक्षणो प्रायः । अन्त्ये तु लोकायाममाने । एतच्च पूर्वोक्तसमुद्घातरीत्या
For Private And Personal Use Only