________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
१२१
परस्परं भवत्येव बन्धः । यथा पञ्चगुणस्निग्धस्य परमाण्वादेः सप्तगुणस्निग्धेन तेन, तथा पञ्चगुणरूक्षस्य तस्य सप्तगुणरूक्षेण तेन, न्यूनाधिकस्निग्धरूक्षताभावाद् भवत्येव बन्धोऽत्र । अत एव 'वेमायाए बन्ध' इत्युच्यते । प्रादुष्क्रियते च सङ्ग्रहकारैः-'द्वयधिकादिगुणानां तु' तत्त्वा०] इति, तुशब्देन अत्र पूर्वप्रक्रान्तं निषेधं व्यावर्त्य विधि निर्दिशति । इत्थमेव चैकस्मिन्नप्याकाशे विविधभावपरिणताः परमाण्वाद्या अवस्थातुं शक्नुवन्त्येव । गुणापेक्ष एव यतो बन्धविधिः । अवस्थानं च तथा 'एगेण वि से पुण्णे दोहि वि पुण्णे सयंपि माएजा, कोडिसएणवि पुण्णे कोडिसहम्सपि माएजा' इति परमागमवचनात् स्पष्टमेव । न च वाच्यं स्कन्धतया परिणतानां परमाणूनां प्रदेशापेक्षयेतदिति । एवं सत्यनन्तानामनन्ताणुकस्कन्धानाम् अनन्तानाम् अमङ्ख्याताणुकस्कन्धानां तथा सङ्ख्याताणुकादीनां तावतामेव तदधिकानां चाणूनां पृथगषस्थानमेव न सम्भवेल्लोके, लोकाकाशस्यैव तावदसळ्यातप्रदेशवत्त्वाभिधानात् । तथा च यथोक्तस्यैव बन्धविधेरभ्युपगम एवोपपद्यते तत्, विचित्रपरिणामत्वाद बन्धाऽबन्धयोद्वयोरपि भावोपपत्तेः । परिणामश्चायं बन्धाख्यः स्निग्धरूक्षत्वादिगुणजनितः, शब्दानन्तराख्यानं च शब्दानामपि तथैवोपपत्तः । नहि केवलः शब्दवर्गणासत्कः परमाणुः, न वाऽपरिणतः स्कन्धतया तथाभावेनोपपद्यते इति ज्ञापनाय ।
अनेन ये केचित स्निग्धा रूक्षाश्च परमाणन एव, न तु पुद्गल गुणभूते स्निग्धरौक्ष्ये इति प्रतिपादयन्ति, ते निरस्ताः । पृष्टव्यास्ते तावत्तत्र यद् ये स्निग्धा रूक्षा वा परमाणवः ते कथं विभक्ताः स्युः, कथं च तेषां स्निग्धा इति रूक्षा इति व्यपदेशः ? । स्निग्धत्वरूषत्व
For Private And Personal Use Only