________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
निबन्धनो हि सः। न च विनाङ्गीकारं गुणत्वेन तयोः तथासम्भवो यथा सोकानां तथाऽन्येषामपि तथाभावे को नु विरोधः । सति च अन्धे भवति परिणामान्तरम् । यत उच्यते--' बन्धे समाधिको पारिगामिको ' [ तत्वा०] इत्येतच्च पर्यायलोकामिहितवर्णादिपरिणामानुसारेणावगन्तव्यमिति नाऽत्राऽस्य विमर्दः।।
बद्धाश्च पुद्गला द्विविधा भवन्ति-सूक्ष्माः स्थूलाश्च । सूक्ष्मभावापन्नाः केचित् स्कन्धाः तिष्ठन्ति, यतोऽवगाहन्ते तेऽनेकाः एकस्मिन्नाकाशप्रदेशे पूर्वप्रतिपादितरीत्या । यथाहि-समाविशन्ते कर्षशतं सुवर्णानामेककर्षप्रमितपारदे विचित्रभावपरिणत्या, तथतप्यनुसन्धेयम् । तथा केचिद् बादरभावमागता घटपटादिवदिति न तरवगाढे नभःप्रदेशे अन्येषां तथाविधानामस्थाने विरुद्धता। अत एवोच्यते परमकारुणिकसङ्ग्रहकारेण यथा-' भेदसङ्घाताभ्यां चाक्षुषा' [ तत्त्वा० ] इति । श्रद्धेयं चेदं पारदर्शकस्यापि काचस्य चूर्णनापारदर्शकतादर्शनाद् , मृदोऽपि तथापरिणत्या काचत्वोत्पादात् प्रत्यक्षावेक्ष्यमाणात् । यतस्तत्र स्थिता अवान्तरे दृष्टिप्रतिबन्धकतामिययुः केचित् , केचिच्च प्रतिबन्धका अपि विपरीतभावेन परिणमन्ते । तथाऽत्रापि भेदसघाताभ्यां चाक्षुषाचाक्षुषत्वे इति न सम्यग्दृशां सम्यग्दृशां यथार्थावगतिविरहः । तथा. च सूक्ष्मत्वं च पुद्गलानामेव परिणामः।
ननु भवतु स्थूलत्वं पुद्गलानां परिणामः, परं सूक्ष्मत्वं कथं ? यतस्तत्तु परमाणुष्वपि विद्यत एवेति चेत् । सत्यं, नानादितः कोऽपि परमाणुः तद्रपेण तिष्ठति । यतो भवत्यसङ्ख्यकालानन्तरं परमाणूनामपि संयोजनम् , अभूवँश्च तानत्यतीते काले संयुक्तपूर्वाः तथा
For Private And Personal Use Only