________________
Shri Mahavir Jain Aradhana Kendra
१२०
www.kobatirth.org
arafafशका
.
रूक्षाः । तत्रापि यथा शीतोष्णयोर्मानं व्यावहारिकमंशादिना क्रियते पारदादियन्त्रेण, तथा ज्ञानिभिष्टाः स्निग्धरूक्षयोरंशा य एवैकगुणायनन्तगुणान्तेन उच्यन्ते । बन्धस्तावत् स्निग्धरूक्षत्वात् पिष्टपानीययोरिव । तत एवोच्यते--' स्निग्धरूक्षत्वाद् बन्ध ' [ तत्त्वा०] इति | परं द्वयोः सतोरपि यदि एकगुणावेव तौ द्वयोः परमाण्वोः स्याताम्, न तदा बन्धः तच्छतिविकलत्वात् । यत उच्यते -' न जघन्यगुणानाम् ' [ तत्त्वा० ] इति । एकस्मिँश्च परमाणौ न विरूक्षाख्यस्पर्शयुगलम् । ततश्च यदि विरुद्धस्पर्शयोः स्यात् समायोगो भवेद् बन्धः । तथा स्निग्धाऽस्निग्धयो रूक्षाऽरूक्षयोश्च न भवेद् बन्धः यदि स्यात् समगुणता । यथा पञ्चगुणस्निग्धो नायाति बन्धं तावन स्निग्वेन पञ्चगुणरूक्ष वा तावद्रूक्षेण ।
,
,
Acharya Shri Kailassagarsuri Gyanmandir
·
9
ननु किमेतद्यावत् पूर्वमेव ' स्निग्धरूक्षत्वाद् बन्ध' इत्यभिधाप्रतिमेवैतत् समानभावबन्धनमिति चेत् | सत्यम्, परं परमाण्यपेक्षयैवमेवैतत् परं स्कन्धापेक्षया केषाञ्चित् परमाणूनां विशि प्रस्निग्धतोपेतत्वं केषाञ्चिन् मन्दस्निग्धता, केषाविद् रूक्षतौत्कटचं, केषाञ्चिच मन्दरौक्ष्यं यत् समुदितं सत् परिणतमन्यान्यतया तदपेक्ष्येदं विशेषवाक्यं स्यादेव । यद्वा- नहि परमाणवः समग्रा समस्निग्धरूक्षभावाः, यत उच्यते भावापेक्षया परमाणूनामेव षट्स्थानपतितत्वं सप्रदेशाप्रदेशत्वं चेति । प्रथमं सामान्यमभिधाय विशेषाभिधानं मनसिकृत्य निषेधविशेषोऽयमुच्यते, तथा चोचुः परममुनयोऽपि - 'गुणसाम्ये सदृशानां ' न बन्ध इति तु प्रकृतम् । तत्र गुणा एकगुणत्वादिका अंशस्थानीयाः, सादृश्यं च स्निग्धरूक्षत्वजात्या, निषेध - श्रयं यं विशेषमाश्रित्याभिहितः स चायं यद्यधिकांशानां
"
For Private And Personal Use Only