________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
दानुसारेणैव सत्यादित्वम् , यदाश्रित्योच्यते--'जह गुणबुड्ढी तहा भासे 'त्ति । परमार्थतः तस्या एवं सत्यत्वात् । पूर्वोक्तभेदयोराराधनीभाषात्वेनाख्यानं व्यवहारानुरोधेनेति । सत्यादिव्याख्यानं चवम्'सच्चा हिया सयामिह सन्तो मुणओ गुणा पयत्था वा । तचिवरीया मोसा मीसा जा तदुभयसहावा ॥१॥ अणहिगया जा तीसुवि सद्दो च्चिय केवलो असच्चमुस'त्ति । स्प] चैतत् पूर्वोक्तानुशीलने इति ।
ध्वनिश्च तत-वितत-घन-शुषिरादिभेदेन वाद्यचातुविध्यान् चतुर्धा । जातिभेदेनैवं भेदविधिः, अन्यथा तु नैव वाद्यानामियत्ता । सर्वप्येते धनयः पूर्वोक्ताः सत्यादिका देशभेदेन शतशो वा मिन्ना भाषा वा । यतः अधुनातनेऽपि ज्ञाताः सन्त्येव त्र्यवहारे सप्तशती भाषाणाम् । सापि स्थूलन्यायेनैव, अन्यथा तु प्रतिद्वादशक्रोशि परिवर्तत एवं भाषा । अत एव च देशविशेषादपभ्रंशो भवति । प्रतिपाद्यते च भूरिभेदो ह्यपभ्रंश इति । यद्यपि लिपिविधानं तन्न्यूनभेदं तथापि शतशः तस्या अपि विधानानि । न च वाच्यं परमागमप्रतिपादिता अष्टादश लिपय इति कथमुच्यते शतश ? इति । यतस्ते मूलभेदतया लिपिभेदा व्याख्याताः , मूलभेदस्य च शतश उत्तरभेदा भवन्तीति न किञ्चित्तत्र नोद्यम् । आर्यलिपिभेदा एते तथापि न ता अत्राधिकार्याः , शब्दाधिकारत्वात् तासां तु सङ्केतग्राहकलात् इति केचित् , तन्न, अनार्यलिपीनामपि तारुष्क्यादीनां तत्र परिपठितत्वात् । सर्वमपि चतच्छब्दविधानं पुद्गलपरिणाम एव ।
तथा बन्धः-स्कन्धत्वपरिणतिः । सा च संयोगविशेषेण भवति चासौ पुद्गलानाम् । स्वयं स्निग्धा हि केचित् परमाणवः , केचिच्च
For Private And Personal Use Only