________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११८
लोकविशिका
तनौ सहैव श्वासादि विदधाना अनन्ता जन्तवः तिष्ठन्ति । परे प्रत्येकाः तेषां चान्यथाख्यानम् । तथाऽद्धा विशिष्ठो दिवसादिलक्षणः कालः , अद्धाद्धा च प्रहरादिः , इत्येवमेतेषां मीलने दशधैव मिश्राख्यो भेदो भाषायाः ।
चतुर्थश्च असल्यामृषाख्यो भेदः । तत्रापूर्ववस्तुविधेयत्वान्न सत्यादित्वम् । तथा च पूर्वोक्तत्रयवैलक्षण्यं लक्षणमस्य । भाषा चासावपि दशधैव, यदाह-आमंतणि आणवणी जायणी पुच्छणी य पण्णवणी । पच्चक्खाणी इच्छा अभिगहियसंकपयडन्ना ॥११॥ इति । देवदत्त ! इत्यादि सम्बोधनविधिना सम्बोधने आद्या । द्वितीया च सौम्य ! इदं कुर्वित्याज्ञापनमाज्ञापनी । इयमपि सहिष्ण्वसहिष्णुत्वमवेत्य, अन्यथा वदतस्तु मृषाभूतैव । इदं देहीति याचनामयी । कथमिदमित्यमिति प्राश्निकी च पृष्टस्वरूपं व्याकुर्वतः, सति प्रश्ने गमनादिभवे चोभे एते इति न सत्यादिना गतार्थताऽनयाः । इष्टं याचिते प्रतिषेधो निषेधाख्यानं प्रत्याख्यानिकी । कस्मिँश्चिद्विषये पृष्टे सति यथेच्छमिति व्याकरणमिच्छानुलोमिकीच्छेति । पृष्ट एव विषये कस्मॅिश्चिदिदमेव कार्यमित्यभिगृहीता, अन्या चेतरा । भेदश्वास्या इच्छानुलोमाया उभयत्रापीष्टकारणतादिदर्शनेन समाऽऽयव्ययतादर्शना देकतरानिर्धारणेनेति ज्ञेयम् । शङ्कायुता यथा-मन्ये भविष्यति वस्त्विदमन्यदपि वेति । प्रकटा च स्फुटार्थवाचिनी । इतरा तु कारणादिवैचित्र्येणेति दशधाऽसत्यामृषा, या व्यवहारभाषेत्युच्यते ।
भाषे अत्राद्यान्तिमे व्यवहारेणाराधनी, यदाश्रित्योच्यते-'चरणे आइम अन्ते 'ति चारित्रभाषामाश्रित्य । तत एव च 'दो न भासिज्ज सव्वसो 'त्ति पारमर्षमपि । तत्वतस्तु सर्वासामपि गुणागुणोत्पत्त्या
For Private And Personal Use Only