________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
लोगस्स मज्झजाणण थावगहेऊ उयाहरणं । सा सगडतित्तोरा वंसगंमि होई उणायव्वा । तपुसगवंसगलूसगहेउमि य मोयओ य पुणो। ___ असत्यायास्तु भाषाया दशधात्वं सदृष्टान्तमेवं-कोहे १ तं मे न पुत्तो, माणे २ धणवं, कवडि ३ इंदो य । लोहे ४ पुण्णमपुण्णं, तुम्हं दासो अहं पिम्मे ॥ दोसे ६ जिणो न सव्वो, हासा ७ दिळं, अतेणगो तेणो भयओ ८ अक्खाइए ९ कूडकहा चोर उवघाए १०॥२॥ अथवा सद्भतापलापासद्भतोद्भावनार्थान्तरवाद-गर्हावाक्यभेदेन चतुर्धा मृषावादः । आये-नास्ति जीवो, न पुण्यपापे, न परलोको, न निर्वृतिरित्यादि । द्वितीये सर्वगत आत्मा अङ्गष्ठमात्रो वा, सकर्तृकं क्षितिक्षितिधराऽङ्करादि, अनादिशुद्धः सिद्ध इत्यादि । तृतीये तमोऽभावरूपम् , शब्दो गुणो, धर्माधर्मों गुणावित्यादि, यद्वा-व्यतिरिक्ता गुणाः, व्यतिरिक्तं सामान्यं, विशेषाश्चापि तथाविधाः समवाय इति द्वितीये । सर्वगत आत्मा इत्यादि च सर्वं तृतीये । तुर्ये तु परकीयाधमजन्ममर्मकर्माद्युपदर्शनवाक्यमिति चतुर्धा मृषा । यदुच्यते-सब्भावासभावत्थंतरगरहा उ वा मुसत्ति ।
तृतीयो भाषाभेदो मिश्र इति । स चापि दशधैव, यदाह-मीसा उत्पन्नविगमुभयजियजिउभयणतेय रद्ध अद्धद्धत्ति । तत्र दशसूत्पन्नेषूत्पन्नाः पञ्चदशेति वदतो दशाधिकानामनुत्पन्नत्वादशानां चोत्पन्नत्वाद् । एवमग्रेऽपि । विगमे यथा अष्टसु मृतेषु मृता द्वादशेति वदतः। द्वयमेतयोरयथातथं वदत उभयमिश्रता । उपलक्षणं चैतदन्यसंयोगभङ्गानाम् । जीवानुद्दिश्य पश्चदशेमा इति वदतः । तथा जीवान् तथैवोभयाँश्चैतान् अन्यथा वदतः । अनन्तकायिकाश्च ते, येषामेकत्र
For Private And Personal Use Only