________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
आनखेभ्यः प्रतिरूपमिति ॥१॥ तो ह प्रजापतिरुवाच साध्वलङ्कतो भूत्वोदशरावेऽवेक्षेथामिति तौ ह साध्वलकृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षाञ्चकाते । तो ह प्रजापतिरुवाच किं पक्ष्यथ इनि ॥२॥ तौ होचतुर्यथैवेदमावां भगवः साध्वलकृतौ सुत्रसनौ परिष्कृतौ स्व एवमेवेमौ भगवः साध्वलङ्कतौ सुवसनौ परिष्कृताक्त्येिष आत्मेति होवाचैतदमृतमभयमेतद् ब्रह्मेति तो ह शान्तहृदयौ प्रवबजतुः ॥३॥ तो हान्वीक्ष्य प्रजापतिरुवाचानुपलभ्यात्मानमननुविद्य बजतो यतर एतदुपनिषदो भविष्यन्ति देवा वाऽसुरा वा ते पराभविप्यन्तीति सह शान्तहृदय एव वरोचनोऽसुराजगाम तेभ्यो है तामुपनिषदं प्रोवाचात्मैवेह महय्य आत्मा परिचय आत्मानमेवेह महयन्नात्मानं परिचरन्नुभौ लोकाववाप्नोतीमं चामुं चेति ।।४।। तस्मादप्योहाददानमश्रद्धानमयजमानमाहुरासुरो बतेत्यसुराणां ह्येषोपनिषस्प्रेतम्य शरीरं भिक्षया बसनेनालङ्कारेणेति संस्कुर्वन्येतेन ह्यमुं लोकं जेप्यन्तो मन्यन्ते ।।५।। इत्यष्टमः खण्डः । ___ अथ हेन्द्रोऽप्राप्यैव देवा नेतद्भयं ददर्श यथैव खल्वयमस्मिन्छरीरे साध्वलकृते साध्वलङ्कतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे सामः परिवृणे परिवृषणोऽस्यैव शरीरस्य नाशमन्वेष नश्यति नाहमत्र भोग्यं पश्यामीति ॥११॥२।। स समित्पाणिः पुनरेयाय त ह प्रजापतिरुवाच मघवन यच्छान्तहृदयः प्रात्राजीः सार्धं वैरोचनेन किमिच्छन् पुनरागम इति सहोवाच यथैव खल्वयं भगवोऽस्मिञ्छरीरे साध्वलङ्कते साध्वलतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवमेवाय
For Private And Personal Use Only