________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
१०५ प्रवेदनमयेऽप्यादौ वनस्पतेस्तदनन्तरं पृथ्व्यम्बुनोः ततस्तेजसः तदनन्तरमेव बायोरिति सामान्येनोद्दिश्याऽऽद्य उद्देशे, क्रमेण षडुद्देशा व्याख्याताः । न चैषोऽनुक्रमोऽनानुपूर्वी च पूर्वोक्तादेव हेतोः । पुद्गलानां स्थूलबुद्धिज्ञेयता च रूपादिमत्तया स्पष्टैवेति । न चेदं विप्रतारकवचनं विपर्ययभूतं वा 'असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते' इति वचनानुसारि, न वा यथा ब्रह्मोपदेशेऽन्ययूथिकैः प्रतिपादितं शक्रायासुरेन्द्राय च
यथा तद्होभये देवासुरा अनुबुबुधिरे ते होचुर्हन्त तमात्मानमन्विच्छामो यमात्मानमन्विष्य सर्वांश्च लोकानाप्नोति सर्वांश्च कामानितीन्द्रो हैव देवानामभिप्रवत्राज वैरोचनोऽसुराणां तो हा संविदातावेव समित्पाणी प्रजापतिसकाशमाजग्मतुः ।।२।। तौ ह द्वात्रिंशदुर्षाणि ब्रह्मचर्यमूषतुस्तौ इ प्रजापतिझवाच किमिच्छन्ताववास्तमिति तौ होचतुः य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिधिसोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् यस्तमात्मानमनुविद्य विजानातीति भगवतो वचो वेदयन्ते तमिच्छन्ताववास्तमिति ॥३॥ तौ ह प्रजापतिरुवाच य एषोक्षिणि पुरुषो दृश्यते एष आत्मेति होवाचैतदमृतमभयमेतद् ब्रह्मेत्यथ यो यं भगवोप्सु परिख्यायते यश्चायमादर्श कतम एष इत्येष उ एवैषु सर्वेष्वेतेषु परिख्यायत इति होवाच ॥४॥ सप्तमखण्डः ।
उदशराव आत्मानमवेक्ष्य यदात्मनो न विजानीथस्तन्मे प्रबृतमिति तो होदशरावेऽवेक्षाञ्चक्राते तो ह प्रजापतिरुवाच किं पराध इति तो होचतुः सर्वमेवेदमावां भगव आत्मानं पश्याव आरोमभ्य
For Private And Personal Use Only