________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४
टोकविंशिका
पितुमनात्मगृहा । ख्यायते च अत उपकारसमूहोऽमीषां यथा-' शरीरवाङ्मनःप्राणापानाः पुद्गलानाम् , सुखदुःखजीवितमरणोपग्रहाश्च
तत्त्वार्थ०] ' इति । व्याख्यास्यामश्चाग्रतो गत्वा शब्दादीन् स्कन्धपरिणामान् शरीराद्यान् उपग्रहांश्चैषां व्याख्यातशेषान् । न च वान्यं कथमेपामाख्यातं मूर्त्तत्वमिति लक्षणम् , यत ऊचुः पृज्याः-' पुद्गला ग्रहणधर्माण ' इति । सत्यमेव तदपि, यतो गृह्यन्त एव पुद्गलाः सर्वजीवैः। अत एव 'तणवोन्भाइविगारे 'त्यादि प्रतिपादितं न विरोधमावहेत । यतस्तत्र गृह्यत इति ग्रहणमिति धात्वर्थरूपे भावे एवानद , तद्धमों येषां ते इति विगृह्य — द्विपदाद्धर्मादन् ' [ ७१।१४१ ] इति अन्प्रत्यये ग्रहणधर्माण इनि, संयोगवद् द्वित्वाद् ग्रहणम्यापि नवं विरोधः । यद्वा-गृह्यन्ते इति ग्रहणानि 'भुजिपत्यादिभ्य' [५।३।१२८] इति कर्मण्यनद । तथा च ग्रहणकर्मतापन्नत्वं तदेव धर्मो येषामिति ग्रहणधर्माण इति । ग्राह्यता च मूर्तिमत्त्वेनैव । न चामर्न गृह्यते. इति सत्यमेव तेषां तथात्वमेतद्विधत्वं चेति ।
____ 'ज्ञेया' इति च ज्ञानमुख्यताज्ञापनाय । परं नैतावता सर्वेषां ज्ञेयत्वमात्रमेव, यतः पुद्गलास्तावत् पररूपत्वाद् हेया एवाऽऽत्मश्रेयोविचारे प्रारभ्यमाणे, धर्मादयः केवलज्ञेयस्वरूपाः, जीवानां चोपादेयता तद्द्वारैव ज्ञानादिप्रभावप्रादुर्भावात् । न च हेया उपादेया वा पदार्था विना ज्ञानं हातुं वोपादातुं वा शक्यन्ते, इति युक्तमेव ज्ञेय. तयाऽभिधानं समग्राणाम् । यद्वा-या इत्येतत्पदं पुद्गला इत्यनेन योज्यते, तत्रैव प्रयोगात , तत्रैतत्प्रयोगश्च पुद्गलानां स्थूलबुद्धिज्ञयत्वात , तेषां यथावज्ज्ञाने जाते भविष्यन्ति शेषाः सुज्ञाना इति ज्ञापनाय । अत एव चाचाराङ्गे प्रथमाध्ययने पड़जीवनिकायपरिज्ञा.
For Private And Personal Use Only