________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
यतो नहि पुद्गला नियताः पृथ्व्यादीनां परिणम्याः, किन्तु ये ये यैाहीत्वा स्वतया परिणम्यन्ते पृथिव्यादि-नामकर्मोदयोत्पन्नव्यादिनामकर्मवद्भिर्जीवविशेषैः अन्नादिकमिव मनुष्यैः स्वशरीरतया तथा तथा ते व्यवहियन्ते, परिणामान्तरापत्तौ च न स्वभावोऽपगच्छति तेषाम् , व्यक्ताव्यक्तत्वे तु भवतो न विरुद्धच्यते अस्माकम् । तथा च वायोरपामद्भय औषधीनां च परिणामेन ‘चद् द्रव्यं यद्रव्यध्वंसजन्य 'मिति नियमेन सर्वेषां स्पर्शरसगन्धवर्णवत्ता उपपद्यत एवेति न किञ्चिन्न्यायाननुगुणं विहायस्थूलबुद्धितामीक्ष्यते । पुनःशब्दो विशेपणे । विशेषयन्ति चैवं पूज्या अनेन यदुत-मृर्ता एव पुद्गलाः , ‘स्पर्शरसगन्धवर्णवन्तः पुद्गला' इतिनियमात् , पुद्गला एव च मूर्ताः, 'रूपिणः पुद्गला' इति नित्यावस्थितान्यरूपाणि धर्मादीनीति तत्त्वा०] सूत्राच्च । नहि धर्माधर्माकाशजीवानां विद्यते रूपादीनां (मध्यात् ) किञ्चित् । न च पुद्गलः कोऽपि तद्रहित इति । श्रुतिरपि च पारमार्थिकं जीवस्वरूपमनुवदन्ती एतदेवाह
'सहोवाचैतदक्षरं गार्गिब्राह्मणा अभिवदन्यस्थूलमनण्व हस्वमदीर्घमलोहितमस्नेहमच्छायमतमोऽवाय्वनाकाशमसङगमरसमगन्धमचक्षुष्कमश्रोत्रमवागमनोऽतेजस्कमप्राणममुखममात्रमनन्तरबाह्यं न तदभाति कश्चने 'ति (वृ. ३-३-८) तथा____ अशब्दमस्पर्शमरूपमव्ययं, तथाऽरसं नित्यमगन्धवच्च । अनाद्यनन्तं महतः परं ध्रुवं, निचाय्य तन्मृत्युमुखात्प्रमुच्यते' ॥१।। इनि कठोपनिषदीयप्रथमाध्यायतृतीयवल्लीयपञ्चदशवृत्तादौ । ___तथा मुक्तिकोपनिषद्यपि-शेषस्थिरसमाधानो मयि त्वं भव मारुते! । अशब्दमस्पर्शमरूपमव्ययं, तथाऽरसं नित्यमगन्धवच्च यत् ।
For Private And Personal Use Only