________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
१०१
चत्वारि भूतानि स्थावरं जङ्गमं चेति । रत्नप्रभा-भामती-न्यायनिर्णयाख्यासु तिमृष्वपि व्याख्यास्वनुष्ठितं गड्डरिकानुकरणमसत्यवादगर्तापातविषमदशानुसरणमेव । न दुर्लभमेव च मिथ्यात्वमोहित मतिविभवानां तदिति न चर्च्यतेऽधिकम् । अनभ्युपगमश्चैतस्यापि पूर्वोक्तग्रन्थीयस्य 'संसारिणस्त्रसस्थावराः' 'पृथिव्यम्बुवनस्पतयः स्थावराः' 'तेजोवायू द्वीन्द्रियादयश्च त्रसाः' इति सूत्रत्रयस्य पर्यालोचनात स्पष्टमेव विदितो भविष्यतीति । साधितं च समयाकरे पृथिव्यादीनां जीववत्त्वं सविस्तरमिति न प्रस्तूयतेऽत्राप्रस्तावे ।
तदेवं क्रमप्राप्तं जीवास्तिकायमाख्याय तुरीयम् , पञ्चमं तमाख्यातुकामा आहुः-* मुत्ता उण पुग्गला नेय 'त्ति । तत्र मूर्छन रूपादीनां समुच्छ्यणं मूर्तिः-स्पर्शादिवत्ता, अत एव 'मूर्तिः काठिन्यकाययो 'रिति अनुशशासुहेमसूरिपादाः । काठिन्यस्य स्पर्श विशेषत्वात् , तद्भावे चावश्यंभाविनो रूपादयः । स्त्रियां क्तिरिति क्तों ' मूर्छा मोहसमुच्छ्ययो 'रिति भौवादिकात् छलोपे 'आदित' इति इणनिषेधे इष्टरूपसिद्धिः । मूर्तिरेषामस्तीति मूर्त्ता-रूपरसगन्धस्पशवन्त इत्यर्थः । तथा च सूत्रम्-' स्पर्शरसगन्धवर्णवन्तः पुद्गला तत्त्वा०] इति । यद्यपि ' शब्दबन्धसौदभ्यस्थौल्यसंस्थानभेदतम*छायातपोद्योतवन्तश्च' इत्यनेन शब्दादीनामपि रूपादिसहगतत्वमेव, तथापि नैते नियताः, एषां स्कन्धतया परिणतेष्वेवाणुषु भावात, नहि परमाणुष्वपरिणतेषु भवन्त्येते इति न नियता एते । अत एव च न प्रवेशिता लक्षणवाक्ये ।
न च वाच्यं पृथ्वीत्वपरिणतस्य पुद्गलसमुदायस्य भवतु स्पर्शरस गन्धरूपवत्त्वम् , परं जलादितया परिणतपुद्गलानां कथं नद्वत्त्वमिति ? ।
For Private And Personal Use Only