________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००
लोकविंशिका
सूर्यादयो ग्रहाः, अद्यापि न निवर्तन्ते मुक्ता अलोकमागता' इति । तथा शारीरिकभाष्यवृत्तौ रत्नप्रभायां तावत् 'कर्मपाशनाशे सत्यलो. काकाशप्रविष्टस्य सततोर्ध्वगमनं मोक्ष' इति, तथा 'जीवास्तिकास्त्रिविधा-कश्चिज्जीवो नित्यसिद्धोऽर्हन्मुख्यः , केचित् साम्प्रतिकमुक्ताः केचिद् बद्धा इति, पुनः अलोकाकाशो मुक्ताश्रय ' इति । भामत्यामपि-'मोक्षस्थानमलोकाकाशः , तथा जीवास्तिकायलेधा-बद्धो मुक्तो नित्यसिद्धश्चेति' । आनन्दगिरिणापि-'जीवास्तिकायस्धा-बद्धो मुक्तो नित्यसिद्धश्च, तत्रार्हन्मुनिनित्यसिद्धः, इतरे केचित् साम्प्रतिकमुक्ताः, अन्ये बद्धा इति भेदः , तथा तदुपरि मोक्षस्थानमलोकाकाशः पुनः आर्हतमुनिप्राप्तिः सततोर्ध्वगतिर्वा मुक्तिरित्यादि ।
न चात्र जैनैर्वक्तव्यं, अनुक्तोपालम्भप्रकटनमात्रेणैव तेषां निग्र हस्थानदुर्गगतप्रक्षेपभावात् । तैर्न विज्ञातं तत्त्वमस्माकमपि बालवेद्यमप्येतद् । आस्तामन्यन्महदित्येतावतैव प्रतिक्षेपः । यतो भण्यन्ते एव निग्रहस्थाने-' अविज्ञातं च० [न्याय०] इति निग्रहास्पदम् । अनभ्युपगमश्च पूर्वोक्तस्य तदुक्तस्य श्वेताम्बरदिगम्बरोभयमान्यतमतत्त्वार्थीयसूत्रकदम्बकात् स्पष्टतर एव । एतानि चैवं-'संसारिणो मुक्ताश्च' । कृत्स्नकर्मवियोगो मोक्षः तदनन्तरमूर्ध्वं गच्छत्यालोकान्तात्' । 'पूर्वप्रयोगाद्वन्धच्छेदादसङ्गत्वात्तथागतिपरिणामाच्च तद्गति'रिति 'लोकाकाशेऽक्गाह' इति च । इत्यलमज्ञानामज्ञतोद्घटनेन पापानां कथयाप्यलमिति न्यायात् ।
एवमेव पृथिव्यादीनां वाय्वन्तानां पुद्गलास्तिकायत्वेनाऽऽख्यानं यत् तेषाम् , तदपि स्वगृहरीत्यनुकरणमेव । तेषां पुद्गलास्तिकायस्य पोदात्वं व्याजहे तैः, तदाथा-पुद्गलास्तिकायः षोदा-पृथिव्यादीनि
For Private And Personal Use Only